सामग्री पर जाएँ

बोधनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बोधनी, स्त्री, (बुध् + भावे ल्युट् । ङीष् । बोधः । (बोध्यतेऽनया । बुध् + णिच् + करणे ल्युट् । अनया हि मूर्च्छितो बोध्यते अतोऽस्य तथा- त्वम् ।) पिप्पली । इति मेदिनी ॥ (बुध्यतेऽस्याम् । बुध् + अधिकरणे ल्युट् । स्त्रियां ङीप् । अस्यां हि योगनिद्राया हरेः प्रबोधनात्तथात्वम् ।) कार्त्तिकशुक्लैकादशी । सा तु उत्थानैकादशी । यथा, -- “शयनीबोधनीमध्ये या कृष्णैकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन ॥” इति तिथ्यादितत्त्वम् ॥ अपि च । “तावद्गर्ज्जन्ति तीर्थानि वाजिमेधादयो मखाः । मथुरायां प्रिया विष्णोर्यावन्नायाति बोधनी ॥” इति हरिभक्तिविलासे पद्मपुराणवचनम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बोधनी¦ स्त्री बोध्यतेऽनया अत्र वा बुध--णिच्--करणे आधारेवा ल्युट्।

१ पिप्पल्यां तया हि मूर्च्छ्रितो बोध्यते।

२ का-र्त्तिकशुक्लैकादश्यां तत्र हि हरेर्बोधनम्।
“शयनीबोधनी-मध्ये या कृष्णैकादशी भवेत्। सैवोपोष्या गृहस्थेन नान्याकृष्णा कदाचन” इति तिथ्यादित॰।
“तावद्गर्जन्ति ती-र्थानि वाजिमेधादयो मखाः। मथुरायां प्रिया विष्णो-र्यावन् नायाति बोधनी” हरिभक्तिविलासे पद्मपु॰ वचनम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

बोधनी f. intellect , knowledge L.

बोधनी f. long pepper L.

बोधनी f. = बोध-वासरPadmaP.

बोधनी f. a partic. शक्तिHcat.

"https://sa.wiktionary.org/w/index.php?title=बोधनी&oldid=393025" इत्यस्माद् प्रतिप्राप्तम्