बौद्धम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बौद्धम्, क्ली, (बुद्धेन प्रणीतम् । बुद्ध + अण् ।) बुद्धकृतनिरीश्वरशास्त्रम् । तत् सर्व्वैः शास्त्र कारैः खण्डितं अग्राह्यम् । इति श्रीभागवतम् । बौद्धशास्त्रसंस्थापनकर्त्ता बृहस्पतिः । यथा, -- “प्राह वाचस्पतिं देवः पीडितोऽस्मि रजेः सुतैः । न यज्ञभागो राज्यं मे निर्जितश्च बृहस्पते ! । राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप ! ॥ ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम् । ग्रहशान्तिविधानेन पौष्टिकेन च कर्म्मणा ॥ गत्वाथ मोहयामास राजपुत्त्रान् बृहस्पतिः । जिनधर्म्मं समास्थाय वेदवाह्यं स वेदवित् ॥ वेदत्रयीपरिम्रष्टांश्चकार धिषणाधिपः । वेदवाह्यान् परिज्ञाय हेतुवादसमन्वितान् । जघान शक्रो वज्रेण सर्व्वधर्म्मबहिष्कृतान् ॥” इति मात्स्ये २४ अध्यायः ॥ (बौद्धदर्शनं यथा, सर्व्वदर्शनसंग्रहे । “अत्र बौद्धैरभिधीयते यदभ्यध्यायि अविनाभावो दुर्बोध इति तदसाधीयः तादात्म्यतदुत्पत्तिभ्या- सविनाभावस्य सुज्ञानत्वात् । तदुक्तम्, “कार्य्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो दर्शनान्तरदर्शनात् ॥” इति ॥ अन्वयव्यतिरेकावविनाभावनिश्चायकावितिपक्षे साध्यसाधनयोरव्यभिचारो दुरवधारणो भवेत् भूते भविष्यति वर्त्तमाने अनुपलभ्यमानेऽपि व्यभिचारशङ्काया अनिवारणात् । ननु तथा- विधस्थले तावकेऽपि मते व्यभिचारशङ्का दुष्परिहरेति चेत् मैवं वोचः विनापि कारणं कार्य्यमुत्पद्यतामिमेवंविधायाः शङ्काया व्याघा- तावधिकतया निवृत्तत्वात् । तदेव ह्याशङ्क्येत यस्मिन्नाशङ्क्यमाने व्याघातादयो नावतरेयुः तदुक्तं व्याघातावधिराशङ्केति । तस्मात्तदुत्पत्ति- निश्चयेन अविनाभावो निश्चीयते तदुत्पत्ति- निश्चयश्च कार्य्यहेत्वोः प्रत्यक्षोपलम्भानुपलम्भ- पञ्चकनिबन्धनः । कार्य्यस्योत्पत्तेः प्रागनुपलम्भः कारणोपलम्भे सत्युपलम्भः उपलब्धस्य पश्चात् कारणानुपलम्भादनुपलम्भ इति पञ्चकारण्या धूमधूमध्वजयोः कार्य्यकारणभावो निश्चीयते तथा तादात्म्यंनिश्चयेनाप्यविनाभावो निश्चीयते यदि शिंशपा वृक्षत्वमतिपतेत् स्वात्मानमेव जह्यादिति विपक्षे बाधकप्रवृत्तेः अप्रवृत्ते तु बाधके भूयः सहभावोपलम्भेऽपि व्यभिचार- शङ्कायाः को निवारयिता । शिंशपावृक्षयोश्च तादात्म्यनिश्चयो वृक्षोऽयं शिंशपेति सामाना- धिकरण्यबलादुपपद्यते । न ह्यत्यन्ताभेदे तत् सम्भवति पर्य्यायत्वेन युगपदपि प्रयोगायोगात् नाप्यत्यन्तभेदे गवाश्वयोरनुपलम्भात् । तस्मात् ष्टतीये द्रव्यत्वप्रसक्तिः इत्यादि दूषणग्रहग्रस्त- त्वात् सामान्यमप्रामाणिकम् । तदुक्तम् । “अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि । तस्मादचलतः स्थानाद्वृत्तिरित्यतियुक्तता ॥ यत्रासौ वर्त्तते भावस्तेन सम्बध्यते न तु । तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् ॥ न याति न च तत्रासीदस्ति पश्चान्नचांशवत् । जहाति पूर्ब्बं नाधारमहो व्यसनसन्ततिः ॥” इति ॥ अनुवृत्तप्रत्ययः किमालम्बन इति चेत् अङ्ग अन्यापोहालम्बन एवेति सन्तोष्टव्यमायुष्मतेति अलमतिप्रसङ्गेन ।
