ब्रह्मकुण्डम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मकुण्डम्, क्ली, (ब्रह्मणा निर्म्मितं कुण्डं सरो- वरम् ।) ब्रह्मणा निर्म्मितसरोबरविशेषः । यथा, “पाण्डुनाथस्योत्तण्स्यां ब्रह्मकुण्डाह्वयं सरः । ब्रह्मणा निर्म्मितं पूर्ब्ब स्नानाय स्वर्गवासिनाम् ॥ आयामेन शतव्यामं विस्तीर्णेन तदर्द्धकम् । सर्व्वपापहरं पुण्यं देवलोकात् समागतम् ॥ तत्र स्नानमन्त्रः । कमण्डलुसमुद्भूत ब्रह्मकुण्डामृतस्रव । ! हर मे सर्व्वपापानि पण्यं स्वर्गञ्च साधय ॥ इत्यनेन तु मन्त्रेण स्नाति तस्मिन् सरोजले । पाण्डुनाथञ्च संपूज्य विष्णुसायुज्यमाप्नुयात् ॥ ब्रह्मकुण्डजले स्नात्वा पूजयित्वा उमापतिम् । ब्रह्मकूटं समारुह्य मुक्तिमेवाप्नुयान्नरः ॥” इति कालिकापुराणे ८१ अध्यायः ॥
