ब्रह्मकूर्च्चम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मकूर्च्चम्, श्ली, (ब्रह्मणो ब्राह्मणत्वस्य कूर्च्चामव ।) व्रतविशेषः । यथा । वृद्धशातातपः । “रजस्वले तु ये नार्य्यावन्योन्यं स्पृशतो यदि । सवर्णे पञ्चगव्यन्तु ब्रह्मकूर्च्चमतःपरम् ॥” पञ्चगव्यपानं व्रतरुपं तेनोपवासः । ब्रह्मकूर्च्च- माह जावालः । “अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः पञ्चगव्यं पिबेत् प्रातर्ब्रह्मकूर्च्चविधिः स्मृतः ॥” तदशक्तौ पुराणैकं दातव्यम् । इति प्रायश्चित्त- तत्त्वम् ॥ (ब्रह्मपुराणेऽपि अस्य व्यवस्था यथा । नरस्तु चतुर्द्दश्यां पूर्णिमायाममावास्यायाम्बा पञ्चगव्यं हविष्यान्नं वा भक्षयेत् । यस्तु पौर्ण- मासीषु ब्रह्मकूच्चें कुर्य्यात् तस्य सर्व्वपापक्षयो भवेत् । यस्तु मासेन द्बिःकुर्य्यात् स यथेष्टाङ्गति- माप्नुयात् ॥)
