सामग्री पर जाएँ

ब्रह्मचर्य्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मचर्य्यम्, क्ली, (ब्रह्मणे वेदार्थं चर्य्यं आचरणीयम् ।) आश्रमविशेषः । यथा, गारुडे ९४ अष्याये । “ब्रह्यचर्य्यस्थितो नैकमन्नमद्यादनापदि । ब्राह्मणः काममश्नीयात् श्राद्धे व्रतमपीडयन् ॥ मधु मांसं तथाश्लीनमित्यादि परिवर्जयेत् । प्रतिवेदं ब्रह्मचर्य्यं द्वादशाब्दानि पञ्च वा ॥ ग्रहणान्तिकमित्येके केशान्तञ्चैव षोडश ॥” (ब्रह्मचर्य्ये अष्टाङ्गमैथुनप्रतिषेधः । यदुक्तम् । “स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेवच ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्य्यमेतदेवाष्टलक्षणम् ॥” एतच्च स्त्रीपुरुषयोः साधारणम् । पुंसः स्त्रीस्म रणादि शून्यत्वम् । स्त्रियाश्च पुरुषस्मरणादि- राहित्यम् अतएवाह मनुः । ५ । १६० ॥ “मृते भर्त्तरि साध्वी स्त्री ब्रह्मचर्य्ये व्यवस्थिता । स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥” “ब्रह्मचर्य्ये व्यवस्थिता अकृतपुरुषान्तरमैथुना ॥” इति कुल्लूकभट्टः ॥ यमभेदः । यथा, पातञ्जले । २ । ३० । “अहिंसासत्यास्तेय ब्रह्मनर्य्यापरिग्रहा यमाः ॥” “ब्रह्मचर्य्यमुपस्थनियमः ।” वीर्य्यधारणम्बा इति भाष्यम् ॥ एतत्तु कलियुगे नास्ति । यथाह महानिर्व्वाणतन्त्रे । “ब्रह्मचर्य्याश्रमो नास्ति वानप्रस्थोऽपि न प्रिये ! । गार्हस्थो भैक्षुकश्चैव आश्रमौ द्वौ कलौ युगे ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्र(व्र)ह्मचर्य्य¦ न॰ ब्रह्मणे वेदग्रहणार्थं चर्य्यम्। द्विजानांवेदग्रहणार्थव्रतभेदे।
“प्रतिवेदं ब्रह्मचय्य द्वादशावदानिपञ्च वा। ग्रहणान्तिकमित्येके” गरुडपु॰

९४ अ॰। तत्प्रकारो मनुनोक्तो यथा
“कृतोपनयनस्यास्य व्रतादेशनमिष्यते। ब्रह्मणो ग्रहण-श्चैव क्रमेण विधिपूर्वकम्। यद् यस्य विहितञ्चर्म यत्सूत्रं या च मेखला। यो दण्डो यच्च वसनन्तत्तदस्यव्रतेष्वपि। सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन्। सन्नियम्येन्द्रियग्रामन्तपोवृद्ध्यर्थमात्मनः। नित्यं स्नात्वाशुचिः कुर्य्याद्देवर्षिपितृतर्पणम्। देवताभ्यर्चनञ्चैव समि-दाधानमेव च। वर्जयेन्मधुमांसञ्च गन्धं माल्यं रसान्स्त्रियः। शुक्तानि यानि सर्वाणि प्राणिनाञ्चैव हिंस-नम्। अभ्यङ्गमञ्जनञ्चाक्ष्णोरुपानच्छत्रधारणम्। कामंक्रोधञ्च लोभञ्च नर्त्तनं गीतवदनम्। द्यूतञ्च जन-वादञ्च परिवादन्तथाऽनृतम्। स्त्रीणाञ्च प्रेक्षणालम्भ-सुपघातम्परस्य च। एकः शयीत सर्वत्र न रेतः स्कन्द-येत् क्वचित्। कामाद्धि स्कन्दयन् रेतो हिनस्तिव्रतमात्मनः। स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमका-मतः। स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत्। उदकुम्भं सुमनसो गोशकृनमृत्तिकाकुशान्। आहरेद्-यावदर्थानि भैक्षञ्चाहरहश्चरेत्। वेदयज्ञैरहीनानांप्रशस्तानां स्वकर्मसु। ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यःप्रयतोऽन्वहम्। गुरोः कुले न भिक्षत न ज्ञातिकुलबन्धुषु। अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत्। सर्वं वापि चरेद् ग्रामं पूर्वोक्तानामसम्भवे। नियम्य प्र-यतो वाचमभिशस्तंस्तु वर्जयेत्। दूरादाहृत्य समिधःसंनिष्टध्याद्विहायसि। सायम्प्रातश्च जुहुयात्ताभिरग्निम-तन्द्रितः। अकृत्वा भैक्षचरणमसमिध्य च पावकम्। अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत्। भैक्षेण वर्त्तये-न्नित्यं नैकान्नादी भवेद् व्रती। भैक्षेण व्रतिनो वृत्ति-रूपवाससमा स्मृता। व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथ-र्षिवत्। काममभ्यर्थितोऽश्नीयाद् व्रतमस्य न लुप्यते। ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः। राजन्यवैश्य-योस्त्वेवं नैतत् कर्म विधीयते”। ततः गुरुवृत्तिरुक्तासा च गुरुवृत्तिशब्दे

२६

२३ पृ॰ दर्शिता।

२ योगाङ्गयमभेदेच
“अहिंसासत्याऽस्तेय ब्र(व्र)ह्मचर्य्याऽपरिग्रहा षमाः” वात॰। तत्र व्र(व्र)ह्मचर्य्यं व्याकृतं भाषकविवरणाभ्यांयथा
“व्र(व्र)ह्मचर्य्यं
“गुप्तेन्द्रियस्योमस्थस्य संयमः” [Page4593-b+ 38] भा॰।
“संयतोपस्थोऽपि हि स्त्रीप्रेक्षणतदालापकन्द-र्पायतनतदङ्गस्पशंनसक्तो न ब्र(व्र)ह्मचर्य्यवान् तन्निरा-सायोक्तं गुप्तेन्द्रियस्येति इन्द्रियान्तराण्यपि तत्र लोलु-पानि रक्षणीयानि” विव॰। तत्र अष्टाङ्गमैथुनशब्दे

५२

४ पृ॰ दर्शितवाक्येन मैथुनस्य स्मरणाद्यष्टाङ्गतया तदुपयो-गीन्द्रियाणि संयम्यानीत्यर्थः। तत्फलञ्च तत्रोक्तं यथा
“ब्र(व्र)ह्मचर्य्यप्रतिष्ठायां वीर्य्यलाभः” पात॰।
“यस्यलाभादप्रतिघान् गुणानुत्कर्षयति सिद्धश्च विनेयेषु ज्ञानमाधतुं समर्थो भवति” भा॰।
“वीर्य्यं सामर्थ्यं यस्यलाभादप्रतिघान् गुणानणिमादीन् विनेयेषु शिष्येषु ज्ञानंयोगतदङ्गविषयमाधातुं मसर्थो भवति” विव॰। तथाचअष्टाङ्गमैथुनवर्जनमेव ब्र(व्र)चर्य्यं तच्च स्त्रीपुं सयोः सा-धारणं पुंसः स्त्रीस्मरणाद्यष्टाङ्गराहित्यस्येव स्त्रीणां पुं-स्मरणादिशून्यत्वेस्यापि तथात्वम्
“अतएव ब्र(व्र)ह्मचर्य्यंतदन्वायरोहणं वा” विष्णु सू॰। विधवानामपि ब्र(व्र)ह्म-चर्य्यं विहितम्
“मृते भर्त्तरि साध्वी स्त्री ब्र(व्र)चर्य्य-व्यवस्थिता। स्वर्गं गच्छत्यपुत्रापि यथा ते ब्र(व्र)ह्म-चारिणः” मनुव्याख्यायां ब्र(व्र)चर्य्ये व्यवस्थिता अ-कृतपुरुषान्तरमैथुना” कुल्लू॰ उक्तम्। भावे क्यम् ब्रह्मचर्य्यातत्रार्थे स्त्री।

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मचर्य्य&oldid=393870" इत्यस्माद् प्रतिप्राप्तम्