ब्रह्मचर्य्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मचर्य्यम्, क्ली, (ब्रह्मणे वेदार्थं चर्य्यं आचरणीयम् ।) आश्रमविशेषः । यथा, गारुडे ९४ अष्याये । “ब्रह्यचर्य्यस्थितो नैकमन्नमद्यादनापदि । ब्राह्मणः काममश्नीयात् श्राद्धे व्रतमपीडयन् ॥ मधु मांसं तथाश्लीनमित्यादि परिवर्जयेत् । प्रतिवेदं ब्रह्मचर्य्यं द्वादशाब्दानि पञ्च वा ॥ ग्रहणान्तिकमित्येके केशान्तञ्चैव षोडश ॥” (ब्रह्मचर्य्ये अष्टाङ्गमैथुनप्रतिषेधः । यदुक्तम् । “स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेवच ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्य्यमेतदेवाष्टलक्षणम् ॥” एतच्च स्त्रीपुरुषयोः साधारणम् । पुंसः स्त्रीस्म रणादि शून्यत्वम् । स्त्रियाश्च पुरुषस्मरणादि- राहित्यम् अतएवाह मनुः । ५ । १६० ॥ “मृते भर्त्तरि साध्वी स्त्री ब्रह्मचर्य्ये व्यवस्थिता । स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥” “ब्रह्मचर्य्ये व्यवस्थिता अकृतपुरुषान्तरमैथुना ॥” इति कुल्लूकभट्टः ॥ यमभेदः । यथा, पातञ्जले । २ । ३० । “अहिंसासत्यास्तेय ब्रह्मनर्य्यापरिग्रहा यमाः ॥” “ब्रह्मचर्य्यमुपस्थनियमः ।” वीर्य्यधारणम्बा इति भाष्यम् ॥ एतत्तु कलियुगे नास्ति । यथाह महानिर्व्वाणतन्त्रे । “ब्रह्मचर्य्याश्रमो नास्ति वानप्रस्थोऽपि न प्रिये ! । गार्हस्थो भैक्षुकश्चैव आश्रमौ द्वौ कलौ युगे ॥”)
