सामग्री पर जाएँ

ब्रह्मजज्ञः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मजज्ञः, पुं, (ब्रह्मणो जायते य इति ब्रह्मजः । ब्रह्म + जन् + ड । जानातीति ज्ञः । ज्ञा + कः । ततः कर्म्मधारयः ।) समष्टिस्थूलदेहाभिमानि- विराट् । स च हिरण्यगर्भाज्जातः सर्व्वज्ञः । यथा, कठोपनिषदि । १ । १७ ॥ “त्रिनाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्म्मकृत् तरति जन्ममृत्यू । ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥” पुनरपि कर्म्मस्तुतिमेवाह त्रिनेति । त्रिना- चिकेतः त्रिकृत्वो नाचिकेतोऽग्निः चितो येन स त्रिनाचिकेतः तद्बिज्ञानस्तदघ्ययनस्तदनुष्ठानवान् वा । त्रिभिर्मातृपित्राचार्य्यैरेत्य प्राप्य सन्धिं सन्धानं मात्राद्यनुशासनं यथावत् प्राप्येत्येतत् । तद्धि प्रामाण्यकारणं श्रुत्यन्तरादवगम्यते । यथा मातृमानित्यादेः । वेदस्मृतिशिष्टैर्व्वा प्रत्यक्षानुमानागमैर्वा तेभ्यो हि विशुद्धिः प्रत्यक्षा । त्रिकर्म्मकृत् इज्याध्ययनदानानां कर्त्ता तरति अतिक्रामति जन्म च मृत्युञ्च जन्ममृत्यू । किञ्च ब्रह्मजज्ञमिति । ब्रह्मजज्ञं ब्रह्मणो हिरण्यगर्भाज्जातो ब्रह्मजः ब्रह्मजश्चासौ ज्ञश्चेति ब्रह्मजज्ञः सर्व्वज्ञो ह्यसौ तं देवं द्योतन- ज्ञानादिगुणवन्तं ईड्यं स्तुत्यं विदित्वा शास्त्रतः निचाय्य दृष्ट्वा च आत्मभावेन इमां स्वबुद्धि- प्रत्यक्षां शान्तिं उपरतिं अत्यन्तमेति अतिशये- नैति वैराजं पदं ज्ञानकर्म्मसमुच्चयानुष्ठानेन प्राप्नोतीत्यर्थः । इति शङ्कराचार्य्यकृतभाष्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मजज्ञः&oldid=153420" इत्यस्माद् प्रतिप्राप्तम्