सामग्री पर जाएँ

ब्रह्मजीवी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मजीवी, [न्] पुं, (ब्रह्मणा वेदेन वेदोक्त- श्रौतादिकर्म्मणा इत्यर्थः जीवतीति । ब्रह्म + जीव् + णिनिः ।) द्बिजकार्य्येषु मूल्येन परि- चारकः । यथा । अनृतवाक् तस्करो राजभृत्यो वृक्षारोपकवृत्तिर्गरदोऽग्निदोऽश्वरथगजारोह- णवृत्ती रङ्गोपजीवी श्वागणिकः शूद्रोपाध्यायो वृषलीपतिर्भाण्डिको नक्षत्रोपजीवी श्ववृत्ति- र्ब्रह्मजीवी त्तिकित्सको देवलकः पुरोहितः कितवो मद्यपः कूटकारकोऽपत्यविक्रयी मनुष्य- पशुविक्रेता चेति तानुद्धरेत् समेत्य न्यायतो ब्राह्मणव्यवस्थया सर्व्वद्रव्यत्यागेन चतुर्थकाला- हाराः सम्बत्सरं त्रिसवनमुपस्पृशेयुस्तस्यान्ते देबपितृतर्पणं गवाह्निकञ्चेत्येवं व्यवहार्य्याः । इति मिताक्षरायां प्रायश्चित्ताध्याये प्रचेतसो वचनम् ॥

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मजीवी&oldid=153423" इत्यस्माद् प्रतिप्राप्तम्