सामग्री पर जाएँ

ब्रह्मज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मज्ञः, पुं, (ब्रह्म जानातीति । ब्रह्म + ज्ञा + क ।) श्रीगोपालः । यथा, -- “वाग्दाता वाक्प्रदो वाणीनाथो ब्राह्मण- रक्षकः । ब्रह्मज्ञो ब्रह्मकृत् ब्रह्मा ब्रह्मकर्म्मप्रकाशकः ॥” इति नारदपञ्चरात्रे गोपालसहस्रनामस्तोत्रे ८ अध्यायः ॥ (विष्णुः । यथा महाभारते । १३ । १४९ । ८४ । “व्रह्मविद् ब्राह्यणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥” कार्त्तिकेयः । यथा, महाभारते । ३ । २३१ । ११ । “ब्रह्मण्यो वै ब्रह्मजो ब्रह्मवित्त्वं ब्रह्मशेषो ब्रह्मवतां वरिष्ठः । ब्रह्मप्रियो ब्राह्मणसव्रती त्वं ब्रह्मज्ञो वै ब्राह्मणानाञ्च नेता ॥”)

ब्रह्मज्ञः, त्रि, (ब्रह्मजानातीति । ब्रह्म + ज्ञा + क ।) ब्रह्मवेत्ता । यथा, -- “स ब्रह्मज्ञः स वेदज्ञः सोऽग्निहोत्री स दीक्षितः । चीनाचारक्रमाचारैर्यो यजेत्तारिणीं नरः ॥” इति चीनाचारप्रयोगविधिः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्र(व्र)ह्मज्ञ¦ त्रि॰ ब्रह्म जानाति ज्ञा--क।

१ ब्रह्मवेत्तरि

२ विष्णौ पु॰
“ब्रह्मज्ञो ब्राह्मणप्रियः” विष्णु स॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मज्ञ¦ m. (-ज्ञः) A sage, one who has spiritual wisdom. E. ब्रह्म and ज्ञ who knows.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मज्ञ/ ब्रह्म--ज्ञ mfn. possessing sacred knowledge , knowing the sacred text , spiritually wise , holy (said also of gods e.g. of विष्णु, कार्त्तिकेय) MBh. Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मज्ञ&oldid=393975" इत्यस्माद् प्रतिप्राप्तम्