ब्रह्मज्ञान
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मज्ञानम्, क्ली, (ब्रह्मणि ब्रह्मविषये यज्ज्ञानम् ।) ब्रह्मविषयकज्ञानम् । इति समञ्जसावृत्तिः ॥ * ॥ तत्त्वमस्यादिवाक्यजन्यप्रतिफलितवृत्त्यारूढ- ज्ञानम् । इति वेदान्तलघुचन्द्रिका ॥ “मिथ्या- हरिं संस्थाप्य देहेऽब्जे ध्यायन् योगी च मुक्तिभाक् ॥ आत्मानमात्मना केचित् पश्यन्ति ध्यानचक्षुषः । सांख्यबुद्ध्या तथैवान्ये योगेनान्ये तु योगिनः ॥ ब्रह्मप्रकाशकं ज्ञानं भवबन्धविभेदकम् । तत्रैकचित्ततायोगो मुक्तिदो नात्र संशयः ॥ जितेन्द्रियान्तःकरणो ज्ञानतृप्तो हि यो भवेत् । स मुक्तः कथ्यते योगी परमात्मन्यवस्थितः ॥ आसनस्थानविधयो न योगस्य प्रसाधकाः । विलम्बजनकाः सर्व्वे विस्ताराः परिकीर्त्तिताः ॥ शिशुपालः सिद्धिमागात् स्मरणाभ्यासमौरवात् । आश्रमाः सर्व्व एवेह पूर्ब्बरात्रे परे तथा ॥ योगाभ्यासं प्रकुर्व्वन्तः पश्यन्त्यात्मानमात्मना । सर्व्वभूतेषु कारुण्यं विद्बेषं विषयेषु च ॥ गुप्तशिश्नोदरादिञ्च कुर्व्वन् योगी विमुच्यते । इन्द्रियैरिन्द्रियार्थांस्तु न जानाति नरो यदा ॥ काष्ठवत् ब्रह्मसंलीनो योगयुक्तस्तदा भवेत् ॥ सर्व्वे वर्णाः स्त्रियः सर्व्वाः कृत्वा पापानि भस्मसात् । ध्यानाग्निनामलाः सन्तो लभन्ते परमां गतिम् । मथनात् दृश्यते ह्मग्निस्तद्बत् ध्यानेन वै हरिः ॥ ब्रह्मात्त्मनोर्यदेकत्वं स योगश्चोत्तमोत्तमः ॥ वाह्यैरुपायैर्मुक्तिर्न नान्तःस्थैः स्याद्यमादिभिः । सांख्यज्ञानेन योगेन वेदान्तश्रवणेन च । प्रत्यक्षतात्मनो या हि सा मुक्तिरभिधीयते ॥ अनात्मन्यात्मरूपत्वमसतः सत्स्वरूपता । दुःखाभावे तथा सौख्यं माया विद्याविना- शिनी ॥” इति गारुडे ब्रह्मज्ञाने २४० अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्र(व्र)ह्मज्ञान¦ न॰ ब्रह्मणो ज्ञानं तेन सह आत्माभेदज्ञानम्। ब्रह्मविद्यायां तच्च अहं ब्रह्मास्मीत्येवंरूपम्
“आत्मानंचेत् विजानीयादयमस्मीति पुरुषः। किमिच्छन् कस्यकामाय किमर्थमनुसंज्वरेत्” श्रुत्या तदभेदज्ञानस्यैव मोक्ष-हेतुत्वमुकं
“वेदान्तसाङ्ख्यसिद्धाब्रह्मज्ञानं वदाम्यहम्। अहंब्रह्म परं ज्योतिः विष्णुरित्येव चिन्तयेत्। सूर्य्येहृद्व्योम्नि वह्नौ च ज्योतिरेकं त्रिधा स्थितम्। यथासर्पिः शरीरस्थं गवां न कुरुतेबलम्। निर्गतं कर्मसंयुक्तंदत्ते तासां महाबलम्। तथा विष्णुः शररीरस्थो नकरोति हितं नृणाम्। विनाराधनया देवः सर्वपःपरमेश्वरः। आरुरुक्षुयतीनाञ्च कर्मज्ञानमुदाहृतम्। आरूडयोगवृक्षाणां ज्ञानं योगः परं मतम्” गरुड्पु॰
२४
० अ॰। न्यायादिमते तच्चारोपज्ञानं वेदान्तिमतेप्रमारूपम्। तत्त्वमसि अहंब्रह्मास्मीत्यादोवाक्यजन्यमपितज्ज्ञानं मनननिदिध्यासनादिना पश्चात् प्रत्यक्षसुत्पद्यते। तज्ज्ञानाभिलापादिकं विवेकचू॰ दर्शितं यथा
“अव्यक्तादिस्थूलपर्य्यन्तमेतदुमेतदुविश्वं यत्राभाममात्रं प्रती-तम्। व्योमप्रख्यं सूक्षममाद्यन्तहीनं ब्रहावैतं यत्तदेवाह-मस्नि। सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगंसर्वम्शून्यम्। नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतंयत् तदेवाहसस्मि। यस्मिन्नस्ताशेषमायाविशेषं प्रत्यग्-रूपं प्रत्ययागम्यमानम्। सत्यज्ञानानन्दमानन्दरूपंब्रह्माद्वैतं यत् तदेवाहमस्मि। निष्क्रियोऽस्म्यविकारो-ऽस्मि निष्कलोऽस्मि निराकृतिः। निर्विकल्पोऽस्मिनित्योऽस्मि निरा{??}म्बोऽस्मि निर्द्वयः। सर्वात्मकोऽहंसर्वोऽह सर्यातीतोऽहमद्वयः। केवलाखण्डवोधोऽहमा-नन्दोऽहं निरन्तरम्”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मज्ञान¦ n. (-नं) Spiritual wisdom. E. ब्रह्म and ज्ञान knowledge.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मज्ञान/ ब्रह्म--ज्ञान n. divine or sacred knowledge ( esp. -knknowledge of the universal permeation of the one Spirit as taught by the वेदा-न्त) , spiritual wisdom Hariv. Bhartr2.
