ब्रह्मज्ञानी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मज्ञानी, त्रि, (ब्रह्मज्ञानं विद्यतेऽस्य । ब्रह्म- ज्ञान + इन् ।) ब्रह्मज्ञानविशिष्टः । यथा, -- “कुशलाकुशलावृत्तिरहितः समदर्शकः । लिङ्गाश्रमपरित्यागी ब्रह्मज्ञानी निगद्यते ॥” इति शङ्करानन्ददीपिका ॥ तेनापि कृष्णभक्तिः कर्त्तव्या । यथा, -- ब्रह्मानन्देन पूर्णोऽहं तेनानन्देन पूर्णधीः । तथापि शून्यमात्मानं मन्ये कृष्णरतिं विना ॥” इति पाद्मे पातालखण्डे जावालिं प्रति ब्रह्म- विद्यावचनम् ॥
