सामग्री पर जाएँ

ब्रह्मण्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मण्यः, पुं, (ब्रह्मणे हितः । ब्रह्मन् + “खलयव- माषतिलवृषब्रह्मणश्च ।” ५ । १ । ७ । इति यत् । “येचाभावकर्म्मणोः ।” ६ । ४ । १६८ । इत्यन्- प्रकृत्या ।) विष्णुः । यथा, महाभारते १३ । १४९ । ८४ । “ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्द्धनः । ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥” अपि च । “ब्रह्मण्यो देवकीपुत्त्रो ब्रह्मण्यो मधुसूदनः । ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥” इत्याह्निकचन्द्रिका ॥ ब्रह्मदारुवृक्षः । इत्यमरः । २ । ४ । ४१ ॥ मुञ्ज- तृणम् । तूलवृक्षः । इति राजनिर्घण्टः ॥ शनैश्चरः । (स्त्री । दुर्गा । यथा महाभा- रते ६ । २२ । २६ । “वेदश्रुतिमहापुण्ये ब्रह्मण्ये जातवेदसि । जम्बूकटकचैत्येषु नित्यं सन्निहितालये ॥”) ब्रह्मणि साधौ त्रि । इति मेदिनी । ये, ९६ ॥

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मण्यः&oldid=153430" इत्यस्माद् प्रतिप्राप्तम्