ब्रह्मदण्डः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मदण्डः, पुं, (ब्रह्मणो ब्राह्मणस्य दण्डः सिद्ध- यष्टिः ।) ब्राह्मणयष्टिका । इति शब्दचन्द्रिका ॥ वशिष्ठस्य सिद्धयष्टिः । यथा, -- “धिग्वलं क्षत्त्रियबलं ब्रह्मतेजो बलं बलम् । एकेन ब्रह्मदण्डेन बहवो नाशिता मम ॥” इति रामायणे विश्वामित्रवाक्यम् ॥ (ब्रह्मणो ब्राह्मणस्य शापरूपो दण्डः ।) ब्रह्म- शापः । यथा, -- “ब्रह्मदण्डहता ये च विद्युदग्निहताश्च ये । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥” इति तिथ्यादितत्त्वम् ॥ (अयं हि राजधर्म्मे शत्रुनाशनोपायः । यदुक्तं महाभारते । २ । ५ । १२३ । “कच्चिदस्त्राणि सर्व्वाणि ब्रह्मदण्डश्च तेऽनघ ! । विषयोगास्तथा सर्व्वे विदिताः शत्रुनाशनाः ॥”)
