सामग्री पर जाएँ

ब्रह्मदत्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मदत्तः, पुं, इक्ष्वाकुवंशीयराजविशेषः । तत्- पर्य्यायः । ब्रह्मसूनुः २ । इति हेमचन्द्रः । ३ । ३५८ ॥ (यथा महाभारते । २ । ८ । २० । “ब्रह्मदत्तस्त्रिगर्त्तश्च राजोपरिचरस्तथा ॥” स्वनामख्यातो नीपपुत्त्रः । यथा, भागवते । ९ । २१ । २५ । पारस्य तनयो नीपस्तस्य पुत्त्रशतं त्वभूत् । स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ॥” ब्रह्मणा दत्त इति विग्रहे वाच्यलिङ्गः । यथा, रामायणे । ३ । १८ । ३८ । “अमोघा इषवश्चेमे ब्रह्मदत्ताः सुतेजसः । दत्ता मह्यं महेन्द्रेण तूणौ चाक्षयसायकौ ॥”)

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मदत्तः&oldid=153443" इत्यस्माद् प्रतिप्राप्तम्