ब्रह्मनाल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मनालम्, क्ली, (ब्रह्मणो ब्रह्मलोकप्राप्तेर्नालमिव ।) काश्यां चक्रतीर्थस्य पूर्ब्बभागे पितामहेश्वर- लिङ्गस्याधस्तीर्थविशेषः यथा, -- “पितामहेश्वरं लिङ्गं ब्रह्मनालोपरिस्थितम् । पूजयित्वा नरो भक्त्या ब्रह्मलोकमवाप्नुयात् ॥ ब्रह्मस्रोतःसमीपे तु कृतं कर्म्म शुभाशुभम् । परामक्षयतामेति शुभमेव ततश्चरेत् ॥ अनल्पमपि यत् कर्म्म कृतमत्र शुभाशुभम् । प्रलयेऽपि न तस्यास्ति प्रलयो मुनिसत्तम ! ॥ नाभितीर्थमिदं प्रीक्तं नाभीभूतं यतः क्षितेः । अपि ब्रह्माण्डगोलस्य नाभिरेषा शुभोदया ॥ सा माणिकर्णिकेकीयं नाभिगाम्भीर्य्यभूमिका । ब्रह्माण्डगोलकं सर्व्वं यस्यामेति लयोदयम् ॥ ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम् । तत्सङ्गमे नरः स्नातः कोटिजन्ममलं हरेत् ॥ ब्रह्मनाले पतेद्येषामपि कीकसमात्रकम् ॥ ब्राह्मण्डमण्डपान्तस्ते न विशन्ति कदाचन ॥” इति स्कन्दपुराणे काशीखण्डे बिन्दुमाधवाग्नि- बिन्दुसंवादे वैष्णवतीर्थभाहात्म्यं नाम ६१ अः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्र(व्र)ह्मनाल¦ न॰ ब्रह्मणो नालमिव। काश्यां मणिकर्णिकासमीपस्थे तीर्थभेदे।
“पितामहेश्वरं लिङ्गं ब्रह्मनालो-परि स्थितम्। पूजयित्वा नरो भक्त्या ब्रह्मलोक-मवाप्नुयात्। ब्रह्मम्रोतःसमीपे तु कृतं करम शुभा-शुमम्। परामक्षयतामेति शुभमेव ततश्चरेत्। अनल्प-मपि यत् कर्म कृतमत्र शुभाशुभम्। प्रलयेऽपि नतस्यास्ति प्रलयो मुनिसत्तम!। नाभीतीर्थमिदं प्रोक्तंनाभीभूतं यतः क्षितेः। अपि ब्रह्माण्डगोलस्य नाभिरेषा शुभोदया। सा माणिकर्णिकेयीयं नाभिगाम्भीर्य्य-भूमिका। ब्रह्माण्डगोलकं सर्वं यस्यामेति लये लयम्। ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम्। तत्सङ्गमेनरः स्नातः कोटिजन्ममलं हरेत्। ब्रह्मनाले पतेदुयेषा-मपि कीकसमात्रकम्। ब्रह्माण्डमण्डपान्तस्ते न विशन्ति-कदाचन” काशीख॰
६१ अ॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मनाल/ ब्रह्म--नाल n. N. of a sacred bathing-place in Benares Ka1s3i1Kh.
