सामग्री पर जाएँ

ब्रह्मपुत्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मपुत्त्रः, पुं, विषभेदः । इत्यमरः । १ । ८ । १० ॥ तस्य लक्षणं यथा, -- “वर्णतः कपिलो यः स्यात्तथा भवति सारकः । ब्रह्मपुत्त्रः स विज्ञेयो जायते मलयाचले ॥” इति भावप्रकाशः ॥ (पर्य्यायोऽस्य यथा, “काकोली गरलः क्ष्वेडो वत्सनाभः प्रदीपनः । शौक्लिकेयो ब्रह्मपुत्त्रो विषं स्याद्गरलो विषः ॥” इति वैद्यकरत्नमालायाम् ॥ ब्रह्मणः पुत्त्रः । सत्यम् । धर्म्मः । मरीच्यादिः ॥ भनुः । यथा मार्कण्डेये । ९४ । ११ । “मन्वन्तरे च दशमे ब्रह्मपुत्त्रस्य धीमतः । सुखासीना निरुद्धाश्च त्रिःप्रकाराः सुराः स्मृताः ॥” नारदः । वशिष्ठः ॥) क्षेत्रभेदः । नदभेदः । इति मेदिनी । रे, २८५ ॥ शेषस्य पर्य्यायः । अमोघानन्दनः २ लौहित्यः ३ लोहितः ४ । इति शब्दरत्नावली ॥ * ॥ अस्य नदस्योत्पत्ति- माहात्म्ये यथा, -- सगर उवाच । “अमोघायां कथं जज्ञे लौहित्यो ब्रह्मणः सुतः । कथं शान्तनुभार्य्यायां रेतः स कमलासनः ॥ पारस्त्रैणेयपुत्त्रो वा कथं जज्ञे पितामहात् । तत् सर्व्वं श्रोतुमिच्छामि कथयस्व द्विजोत्तम ! ॥ और्व्व उवाच । शृणु त्वं नृपशार्द्दूल ! कथयामि महत्तरम् । आख्यानं ब्रह्मपुत्त्रस्य लौहित्यस्य महात्मनः ॥ हरिवर्षे महावर्षे शान्तनुर्नाम नामतः । मुनिरासीन्महामागो ज्ञानवान् सुतपोधनः ॥ तस्य भार्य्या महाभागा अमोघाख्या महासती । हिरण्यभर्गस्य मुनेस्तृणवृन्दाश्रमोद्भवा ॥ तया सार्द्धं स कैलासमर्य्यादापर्व्वतेऽवसत् । लौहित्याख्यस्य सरसस्तीरे वै गन्धमादने ॥ एकदा स तपोनिष्ठो निजपुष्पादिगोचरे ।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मपुत्त्र¦ m. (-त्त्रः)
1. A sort of poison.
2. The Brahmaputra river, which rises in the Hima4laya and with the Ganges falls into the Bay of Bengal.
2. A place of pilgrimage, probably the source of the stream. f. (-त्री)
1. The SARASWATI4 river.
2. The goddess SARAS- WATI
4. E. ब्रह्मन् BRAHMA4 and पुत्त्र offspring.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मपुत्त्र&oldid=394440" इत्यस्माद् प्रतिप्राप्तम्