ब्रह्मबन्धु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मबन्धुः, पुं, (ब्रह्मणो बन्धुरिव ।) अधिक्षेपः । निन्दितब्राह्मणः । निर्द्देशः । अग्राह्यनामक- ब्राह्मणः । इत्यमरः । ३ । ३ । १०३ ॥ तथा हि । अधिक्षेपे निन्दायां गम्ये अधिक्षेप्यो ब्रह्मबन्धुः । यथा ब्रह्मबन्धो ! किमेतत्ते इति । अधिक्षिप्यते- ऽसौ अधिक्षेपोऽधिक्षेप्यः कर्म्मणि घञ् वा । ब्रह्मैव बन्धुरस्य नान्यः । ब्रह्मकर्म्माभावात् निन्दा अधिक्षेपे समासोऽभिधानात् । ब्रह्मबन्धुः निर्द्देशे यस्य द्वेषान्नाम न गृह्यते स ब्रह्मबन्धुरितिनिर्द्दि- श्यते इत्यर्थः । स्त्रियां (“ऊङुतः ।” ४ । १ । ६६ । इति ऊङ् ।) ब्रह्मबन्धूः । ब्रह्मबन्धुर्ब्राह्मणजाति- विशेषे च । ब्राह्मणजातिविशेषे निर्द्देशे ब्रह्म- बन्धुरधिक्षेपे इति वोपालितः । इति भरतः ॥ * ॥ (यथा, मार्कण्डेये । ७५ । ६० । “ब्रह्मबन्धोः सुता न त्वं बाले ! नैव तपस्विनः । सुता त्वं मम यो देवान् कर्त्तुमन्यान् समुत्- सहे ॥”) तस्य दैहिकवधनिषेधो । यथा, भागवते १ स्कन्धे । “वपनं द्रविणादानं स्थानान्निर्यापणन्तथा । एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मबन्धु वि।

ब्राह्मणाधिक्षेपः

समानार्थक:ब्रह्मबन्धु

3।3।104।1।1

ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः। अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

ब्रह्मबन्धु वि।

ब्राह्मणनिर्देशः

समानार्थक:ब्रह्मबन्धु

3।3।104।1।1

ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः। अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मबन्धु¦ पु॰ ब्रह्मा विप्रो बन्धुरुत्पादको यस्य ब्रह्मणोविप्रस्य बन्धरिव वा।

१ विप्राचाररहिते निन्द्यकर्मकारिणिजात्या विप्रे

२ विप्रतुल्ये भट्टादौ च।
“अस्मत्कुलीनो-ऽननूच्य ब्रह्मबन्धुरिव भवति” छा॰ उ॰।
“हे सौम्या-ऽननूच्यानधीत्य ब्रह्मवन्धिर्व भवतीति ब्राह्मणान् बन्धून्व्यपदिशति न स्वयं ब्राह्मणवृत्तः” इति भा॰। विप्र-वंश्यापकृष्टब्राह्मणस्यापि दैहिकदण्डनिषेधो यथा
“वपनं द्रविणादानं स्थानान्निर्वासनन्तथा। एषहि ब्रह्मबन्धूनां बधो नान्योऽस्ति दैहिकः” भाग॰

१ स्क॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मबन्धु¦ m. (-न्धुः)
1. The epithet or appellative of a BRA4HMAN.
2. A term of abuse. E. ब्रह्म BRAHMA4 and बन्धु a friend.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मबन्धु/ ब्रह्म--बन्धु m. an unworthy or merely nominal Brahman( Sa1y. " a Brahman who omits his संध्याdevotions ") AitBr. ChUp. Gr2S3rS. etc. (646872 धूf. Gaut. Gobh. ; 646872.1 धु-ताf. MBh. ; compar. and superl. धू-तर, धू-तमPa1n2. 6-3 , 44 Sch. )

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मबन्धु&oldid=394576" इत्यस्माद् प्रतिप्राप्तम्