सामग्री पर जाएँ

ब्रह्मबन्धुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मबन्धुः, पुं, (ब्रह्मणो बन्धुरिव ।) अधिक्षेपः । निन्दितब्राह्मणः । निर्द्देशः । अग्राह्यनामक- ब्राह्मणः । इत्यमरः । ३ । ३ । १०३ ॥ तथा हि । अधिक्षेपे निन्दायां गम्ये अधिक्षेप्यो ब्रह्मबन्धुः । यथा ब्रह्मबन्धो ! किमेतत्ते इति । अधिक्षिप्यते- ऽसौ अधिक्षेपोऽधिक्षेप्यः कर्म्मणि घञ् वा । ब्रह्मैव बन्धुरस्य नान्यः । ब्रह्मकर्म्माभावात् निन्दा अधिक्षेपे समासोऽभिधानात् । ब्रह्मबन्धुः निर्द्देशे यस्य द्वेषान्नाम न गृह्यते स ब्रह्मबन्धुरितिनिर्द्दि- श्यते इत्यर्थः । स्त्रियां (“ऊङुतः ।” ४ । १ । ६६ । इति ऊङ् ।) ब्रह्मबन्धूः । ब्रह्मबन्धुर्ब्राह्मणजाति- विशेषे च । ब्राह्मणजातिविशेषे निर्द्देशे ब्रह्म- बन्धुरधिक्षेपे इति वोपालितः । इति भरतः ॥ * ॥ (यथा, मार्कण्डेये । ७५ । ६० । “ब्रह्मबन्धोः सुता न त्वं बाले ! नैव तपस्विनः । सुता त्वं मम यो देवान् कर्त्तुमन्यान् समुत्- सहे ॥”) तस्य दैहिकवधनिषेधो । यथा, भागवते १ स्कन्धे । “वपनं द्रविणादानं स्थानान्निर्यापणन्तथा । एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ॥”

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मबन्धुः&oldid=153464" इत्यस्माद् प्रतिप्राप्तम्