ब्रह्मयज्ञः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मयज्ञः पुं, (ब्रह्मणो ब्रह्मणे वा यज्ञः ।) विधिना वेदस्याभ्यसनम् । शिष्याणामध्यापनञ्च । इत्य- मरभरतौ ॥ यथा, मनौ । ३ । ७० । “अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतोनृयज्ञोऽतिथिपूजनम् ॥”
