ब्रह्मयोनिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मयोनिः, पुं, (ब्रह्मणो योनिरुत्पत्तिस्थानम् ।) ब्रह्मगिरिः । इति शब्दरत्नावली ॥ (ब्रह्मप्राप्ति- कारणब्रह्मध्यानम् । यथा मनुः । १० । ७४ । “ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्म्मण्यवस्थिता । ते सम्यगुपजीवेषुः षट् कर्म्माणि यथाक्रमम् ॥” “ये ब्राह्मणा ब्रह्मप्राप्तिकारणब्रह्मध्याननिष्ठाः स्वकर्म्मानुष्ठाननिरताश्च ते षट्कर्म्माणि वक्ष्य- माणान्यध्यापनादीनि क्रमेण सम्यगनुतिष्ठेषुः ॥” इति तट्टीकायां कुल्लूकभट्टः ॥ अपरस्य ब्रह्मणो योनिरुत्पत्तिकारणम् । यद्वा ब्रह्म सत् योनिः सर्व्वेषामुत्पत्तिकारकं ब्रह्म । यथा, मुण्डकोप- निषदि । ३ । १ । ३ ॥ “यदा पश्यः पश्यते रुक्मवर्णम् कर्त्तारमीशं पुरुषं ब्रह्मयोनिम् ॥” तीर्थविशेषः । यथा महाभारते । ३ । ८३ । १३१ । “ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः । तत्र स्नात्वा नरव्याघ्र ! ब्रह्मलोकं प्रपद्यते ॥” ब्रह्मा योनिरुत्पत्तिकारणं यस्य इति विग्रहे वाच्यलिङ्गः । यथा रघौ । १ । ६४ । “त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धा कथं न स्युः सम्पदो मे निरापदः ॥” यथा च मार्कण्डेये । २३ । ३० । जगद्धात्रीमहं देवी मारिराधयिषुः शुभाम् । स्तोष्ये प्रणम्य शिरसाब्रह्मयोनिं सरस्वतीम् ॥”)
