ब्रह्मयोनी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मयोनी, स्त्रो, (ब्रह्मा योनिरुत्पत्तिकारणं यस्याः । स्त्रियां पक्षे ङीप् ।) कुरुक्षेत्रे सरस्वतीतीरे पृथूदकनिकटे तीर्थविशेषः । तत्र ब्रह्मणा चत्वारो वर्णाः सृष्टाः । यथा, -- “सरस्वत्यास्तु तीरे यः संत्यजेदात्मनस्तनुम् । पृथूदके जप्यपरो नैनं श्वो मरणं लभेत् ॥ तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्म्मिताः । पृथूदकं समाश्रित्य सरस्वत्यास्तटे स्थितः ॥ चतुर्व्वर्णस्य सृष्ट्यर्थमात्मज्ञानपरोऽभवत् । तस्याभिध्यायतः सृष्टिर्ब्रह्मणोऽव्यक्तजन्मनः ॥ मुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्त्रिया- स्तथा । ऊरुभ्यां वैश्यजातीयाः पद्भ्यां शूद्रास्ततोऽभवन् ॥ चातुर्व्वर्ण्यं ततो दृष्ट्वा आश्रमस्थान् सुतांस्ततः । एवं प्रतिष्ठितं तीर्थं ब्रह्मयोनीतिसंज्ञितम् ॥ तत्र स्नात्वा मुक्तिकामः पुनर्योनिं न पश्यति ।” इति वामनपुराणे ३८ अध्यायः ॥
