ब्रह्मराक्षसः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मराक्षसः, पुं, (आदौ ब्रह्मा ब्राह्मणः पश्चात् राक्षसः कुकर्म्मभिः राक्षसयोनिं गतः ।) भूतविशेषः । यथा, -- “संयोगं पतितैर्गत्वा परस्यैव च योषितम् । अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥” इति मानवे । १२ । ६० ॥ (स च यज्ञविनाशकारी भूतयोनिगतत्वात् । यथा, रामायणे । १ । ११ । २१ । “शक्योऽवाप्तुमयं यज्ञो नाशक्तेन महीक्षिता । नचैवाश्रद्दधानेन न चाल्पद्रविणेन च ॥ छिद्रं हि मृगयन्त्यत्र यज्ञघ्ना ब्रह्मराक्षसाः ॥”) महादेवस्य गणविशेषः । यथा, -- “डाकिनीर्जातुधानांश्च वेतालान् सविनायकान् । भूतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्ष- सान् ॥” इति श्रीभागवते बाणयुद्धे ६३ अध्यायः ॥ पारिभाषिकब्रह्मराक्षसाः । यथा, -- “मूर्खः स्त्री कच्छपश्चैव वाजी वधिर एव च । गृहीतार्थं न मुञ्चन्ति पञ्चैते ब्रह्मराक्षसाः ॥” इति व्यवहारप्रदीपः ॥
