ब्रह्मरात्रिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मरात्रिः, पुं, (याज्ञवल्क्यमुनिः । इति हेमचन्द्रः ॥ ब्रह्मज्ञानं राति ददाति यः । ब्रह्मशब्दात् राधातोर्नाम्नीति त्रिप्रत्ययनिष्पन्नोऽयम् । इति तट्टीका ॥ ब्रह्मणो निशायां स्त्री । सा दैव- सहस्रयुगेन भवति । इति पुराणम् ॥ (मनुष्य- कालपरिमाणतो ब्रह्मणो रात्रिपरिमाणमुच्यते । नेत्रपरिस्पन्दनकालो निमेषः । अष्टादशनिमे- षास्तु काष्ठा । त्रिंशत् काष्ठास्तु कला । त्रिंशत् कलास्तु क्षणः । क्षणास्तु द्वादश मिलित्वा एको मुहूर्त्तः । “तास्तु त्रिंशत्क्षणस्ते तु मुहूर्त्तो द्वादशा- स्त्रियाम् ॥” इत्यमरः । १ । ४ । ११ ॥ मनुमते तु त्रिंशत्कला मिलित्वा एको मुहूर्त्तः स्यात् यदुक्तं तत्रैव । १ । ६४ । “त्रिंशत्कला मुहूर्त्तः स्यादहोरात्रन्तु तावतः ॥” ते त्रिंशन्मुहूर्त्ता एकोऽहोरात्रः । अहो- रात्रास्तु पञ्चदशसंख्यका एकः पक्षः । पक्ष स्तु शुक्लकृष्णभेदात् द्विविधः । ताभ्यामुभाभ्यां पक्षाभ्यां मासः स्यात् । मासस्तु पित्र्ये रात्र्य- हनी । कृष्णपक्षस्तु पितॄणामहः शुक्लपक्षस्तु शर्व्वरी । षड्भिर्मासैरयनं भवेत् । अयनन्तु दक्षिणोत्तरभेदात् द्बिविधम् । द्वाभ्यामयनाभ्यां वत्मरः स्यात् । वत्सरस्तु दैवे रात्र्यहनी । उत्तरायणं देवानामहः दक्षिणायनन्तु रात्रिः । मानुषाणां यत्कृतादियुगचतुष्टयं तद्दैवं युगं ज्ञेयम् । एवं दैवयुगसहस्रेण ब्रह्मणोऽहः दैवयुगसहस्रेण च रात्रिर्भवति । तथा च मनौ । १ ७१ । श्लोकस्य टीकायां कुल्लूकभट्टः । “विष्णुपुराणे मानुषचतुर्युगसहस्रेण ब्रह्माह- कीर्त्तनान्मानुषचतुर्युगेनैव दिव्ययुगानुगमनात् । तथा च विष्णुपुराणम् । “कृतं त्रेताद्वापरञ्च कलिश्चेति चतुर्युगम् । प्रोच्यते तत्सहस्रन्तु ब्रह्मणो दिवसो मुने ! ॥” तथा च मनुः । १ । ६८-७३ । “ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः । एकैकशो युगानान्तु क्रमशस्तन्निबोधत ॥ चत्वार्य्याहुः सहस्राणि वर्षाणान्तु कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्त्तन्ते सहस्राणि शतानि च ॥ यदेतत्परिसंख्यातमादावेव चतुर्युगम् । एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥ दैविकानां युगानान्तु सहस्रं परिसंख्यया । ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरेव च ॥ तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः । रात्रिञ्च तावतीमेव तेऽहोरात्रविदो जनाः ॥” “यदेतदिति । एतस्य श्लोकस्यादौ यदेतन्मानुषं चतुर्युगं परिगणितं एतद्देवानां युगमुच्यते । चतुर्युगशब्देन सन्ध्यासन्ध्यांशयोरप्राप्तिशङ्काया- माह एतद्द्वादशसाहस्रमिति स्वार्थेऽण् । चतु- र्युगैरेव द्वादशसहस्रसंख्यैर्दिव्यं युगमिति तु मेधातिथेर्भ्रमो नादर्त्तव्यः मनुनानन्तरं दिव्य- युगसहस्रेण ब्रह्माहस्याप्यभिधानात् ॥” इति तट्टीकायां कुल्लूकभट्टः ॥)
