सामग्री पर जाएँ

ब्रह्मलोकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मलोकः, (ब्रह्मणो लोको भुवनम् ।) ब्रह्मणो भुवनम् । यथा, -- “सत्यस्तु सप्तमो लोको ह्यपुनर्भववासिनाम् । ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ॥” इति देवीपुराणम् ॥ अपि च । “षड्गुणेन तपोलोकात् सत्यलोको विराजते । अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ॥” अस्य टीका । जनलोकापेक्षयैव षड्गुणेन द्वादशको ह्युच्छ्रायेण तपोलोकानन्तरं सत्य- लोकः । न तु तपोलोकात् षड्गुणेनेति मन्त- व्यम् । तथासत्याष्टचत्वारिंशत्को ह्युच्छ्राय- त्वेन ब्रह्माण्डे तस्यावकाशाभावात् । सूर्य्याण्ड- गोलयोरन्तः कोट्यः स्युः पञ्चविंशतिरिति शुकोक्तेः । सत्यलोक एव कक्षाभेदेन ब्रह्म- धिष्ण्यात् परं वैकुण्ठलोकादि ज्ञेयम् । एवञ्च भूतलादूर्द्ध्वं पञ्चदशलक्षोत्तरास्त्रयोविंशतिकोट्यो भवन्ति । सत्यलोकादूर्द्ध्वञ्च पञ्चदशलक्षोनको- टिद्वयादण्डकटाह इति ज्ञेयम् । अपुनर्मारकाः पुनर्मृत्युशून्याः । इति विष्णुपुराणे । २ अं । ७ अः ॥ (ब्रह्मैव लोकः । तुरीयब्रह्मस्वरूपम् । यदुक्तं शतपथब्राह्मणे । १४ । ७ । १ । ३१ । “एषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्येवानन्दस्यान्यानि भूतानि मात्रामुप- जीवन्ति । स यो मनुष्याणां राद्धः समृद्धो भवति । अन्येषामधिपतिः सर्व्वैर्मानुष्यकैः कामैः सम्पन्नतमः स मनुष्याणां परम आनन्दः । अथ ये शतं मनुष्याणामानन्दाः । स एकः पितॄणां जितलोकानामानन्दः । अथ ये शतं पितॄणां जितलोकानामानन्दाः स एक कर्म्मदेवानामानन्दः ये कर्म्मणा देवत्वमभि- सम्पद्यन्ते अथ ये शतं कर्म्मदेवानामानन्दाः । स एक आजानदेवानामानन्दो यश्च श्रोत्रियो- ऽवृजिनोऽकामहतः । अथ ये शतं आजान- देवानामानन्दाः । स एको देवलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः । अथ ये शतं देवलोक आनन्दाः । स एको गन्धर्व्वलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः । अथ ये शतं गन्धर्व्वलोक आनन्दाः । स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजृणो- ऽकामहतः । अथ ये शतं प्रजापतिलोक आनन्दाः । स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः । एषः ब्रह्मलोकः सम्राट् ॥ शिवः यथा, महाभारते । १३ । १७ । १४२ । “निर्व्वाणं ह्वादनञ्चैव ब्रह्मलोकः परागतिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मलोकः&oldid=153495" इत्यस्माद् प्रतिप्राप्तम्