सामग्री पर जाएँ

ब्रह्मवर्च्चसम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मवर्च्चसम्, क्ली, (ब्रह्मणो वेदस्य तपसो वा वर्च्च- स्तेजः । “ब्रह्महस्तिभ्यां वर्च्चसः ।” ५ । ४ । ७८ । इति अच् ।) ब्राह्मणस्य वृत्ताध्ययनर्द्धिः । इत्यमरः । २ । ७ । ३९ ॥ अस्य टीका । वेद- बोधितस्याचारस्य परिपालनं वृत्तम् । व्रत- ग्रहणपूर्ब्बकं गुरुमुखेन वेदाभ्यासोऽध्ययनम् । तयोरृद्धिस्तत्परिपालनकृतस्तेजस उपचयो ब्रह्मवर्च्चसं स्यात् । ब्रह्महस्तिराजेति अः । इति भरतः ॥ तपःस्वाध्यायजं यच्च तेजस्तु ब्रह्मवर्च्च- सम् । इति जटाधरः ॥ (तथा च मनुः । ४ । ९४ । “ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः । प्रज्ञां यशश्च कीर्त्तिञ्च ब्रह्मवर्च्चसमेव च ॥”)

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मवर्च्चसम्&oldid=153500" इत्यस्माद् प्रतिप्राप्तम्