ब्रह्मसामन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्र(व्र)ह्मसामन्¦ न॰ सामभेदे तच्च साम ताण्ड्यब्रा॰
४ ।
३ ।
१ दर्शितं यथा
“अथास्मिन्नेवाहनि मध्यन्दिनसवने ब्राह्म-णाच्छंसिनः पृष्ठस्तोत्रनिवर्त्तकमेकं साम विधत्ते भा॰
“अभीवर्त्तो ब्रह्म साम भवति” ताण्ड्यब्रा॰
“तञ्चोदञ्चमृतीसहमित्यस्यां योनावुत्पन्नं साम अभीवर्त्ताख्यम् एतत्साम ब्राह्मणाच्छंसी पृष्ठस्तोत्रमनुशंसति, तच्च वक्ष्य-माणासु ऋक्षु कर्त्तव्यम्” अथैतन्नामनिर्वचनेन प्रशं-सति भा॰।
“अभीवर्त्तेन वै देवाः खर्गं लोकमभ्यवर्त्तन्तयदभीवर्त्तो ब्रह्म साम भवति स्वर्गस्य लोकस्याभिवृत्त्यै” ब्रा॰।
“अभीवर्त्ताख्येन सान्या देवाः स्वर्गं लोकमभ्य-वर्त्तन्त अगच्छन् अतएवास्याभिवृत्तिसाधनत्वादस्य साम्नो-ऽभीवर्त्त इति संज्ञा निष्पन्ना। अतएव शाट्यायनकं
“यदभ्यवर्त्तन्त तदभीवर्त्तस्याभीवर्त्तत्वमिति”। अभिपूर्वाद्-वृत वर्त्तने इत्यस्मात् करणे धञ्। उपसर्गस्य घञ्यमनुष्येबहुलमिति पूर्वपदस्य दीर्घः। एवं सति अस्मिन्नहनिअभीवर्त्तो ब्रह्मणः पृष्ठ्यसाम भवतीति यत् तत् स्वर्गस्य{??}भिवृत्यै अभिवर्त्तनायाभिगमनाय सत्रिणां[Page4602-a+ 38] मवति” भा॰। तच्च साम ऊहगाने।
६ प्र॰
१४ क॰ दर्शितम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मसामन्/ ब्रह्म--सामन् n. N. of a सामन्(sung to a text recited by the chief priest or by the ब्राह्मणाच्-छंसिन्) TS. Br. S3rS.
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मसामन् न.
माध्यन्दिन सवन में गाये जाने वाले तृतीय पृष्ठस्तोत्र का नाम, आप.श्रौ.सू. 14.19.6 (सोम)।