ब्रह्मसायुज्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मसायुज्यम्, क्ली, (युनक्तीति युजः । “इगुप- धेति ।” ३ । १ । १३५ । कः । ततः “तेन सहेति ।” २ । २ । २८ । इति बहुब्रीहिः । “वोपसर्जनस्य ।” ६ । ३ । ८२ । इति सहस्य सः । ततः सयुजस्य भावः सायुज्यं । यद्वा, योजयतीति युक् सम्पदादित्वात् क्विप् । ततो बहुब्रीहिस्ततः सयुजो भावः । ततः ब्रह्मणः सायुज्यं योजकत्वम् ।) ब्रह्मणो भावः । तत्- पर्य्यायः । ब्रह्मभूयम् २ ब्रह्मत्वम् ३ । इत्यमरः । २ । ७ । ५२ ॥ ब्रह्मसापूज्यम् ४ । इति शब्द- रत्नावली ॥ (मुग्धबोधमतेऽस्य व्युत्पत्तिर्यथा ।) ब्रह्मणो भवनं ताद्रूप्यं ब्रह्मभूयं भूहनः क्यविति क्यप् । त्वतौ भावे इति त्वे ब्रह्मत्वं । योजनं युक् तत्सहितः सयुक् तद्भावः सायुज्यं ततो ब्रह्मणा विग्रहः । इति भरतः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मसायुज्य नपुं।
ब्रह्मभावः
समानार्थक:ब्रह्मभूय,ब्रह्मत्व,ब्रह्मसायुज्य
2।7।51।2।3
मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम्. स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि॥
पदार्थ-विभागः : , सामान्यम्, अवस्था
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्र(व्र)ह्मसायुज्य¦ न॰ सह युनक्ति युज--क्विप् तस्य भावःसायुज्यं
६ त॰। ब्र(व्र)ह्मभावे।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मसायुज्य¦ n. (-ज्यं) Identification with BRAHMA
4. E. ब्रह्म BRAHMA4 and सायुज्य intimate union.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मसायुज्य/ ब्रह्म--सायुज्य n. intimate union or identification with ब्रह्मL.