सामग्री पर जाएँ

ब्रह्मसावर्णिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मसावर्णिः, पुं, (ब्रह्मपुत्त्रो सावर्णिः ।) दशम मनुः । अस्मिन् मन्वन्तरे विश्वक्सेनोऽवतारः । शम्भुरिन्द्रः । सुरसेनविरुद्धाद्याः देवाः । हविष्म- दाद्याः सप्तर्षयः । भूरिसेनाद्या मनुपुत्त्रा भवि- ष्यन्ति । इति श्रीभागवतम् । ८ । १३ । २१-२२ ॥ अन्यच्च । “मन्वन्तरे तु दशमे ब्रह्मपुत्त्रस्य धीमतः । सुरसेना विरुद्धाश्च द्विप्रकारास्तथा स्मृताः ॥ शतसंख्या हि ते देवा भविष्यास्तत्र वै मनौ । तत्पुत्त्राणां शतं भावि तद्देवानां तदा शतम् ॥ शास्तिरिन्द्रस्तदा भावी सर्व्वैरिन्द्रगुणैर्युतः । सप्तर्षी स्तु निबोध त्वं ये भविष्यन्ति वै तदा ॥ आपो मूर्त्तिर्हविष्मांश्च सुकृती सत्य एव च । नाभागोऽप्रतिमश्चैव वाशिष्ठश्चैव सप्तमः ॥ सुक्षेत्त्रश्चोत्तमौजाश्च भूरिसेनः सुवीर्य्यवान् । शतानीकोऽथ वृषभो अनमित्रो जयद्रथः ॥ भूरिद्युम्नः सुवर्च्चाश्च तस्यैते तनया मनोः ।” इति ब्रह्मसावर्णिकम् । इति मार्कण्डेयपुराणे ॥ ९४ । ११-१६ ॥

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मसावर्णिः&oldid=153535" इत्यस्माद् प्रतिप्राप्तम्