सामग्री पर जाएँ

ब्रह्मसूत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मसूत्रम्, क्ली, (ब्रह्मणि वेदग्रहणकाले उपनयन- समये इत्यर्थः धृतं यत् सूत्रम् ।) यज्ञसूत्रम् । तत्पर्य्यायः । पवित्रम् २ यज्ञोपवीतम् ३ द्बिजा- यनी ४ । इति त्रिकाण्डशेषः ॥ उपवीतम् ५ सावित्रम् ६ सावित्रीसूत्रम् ७ । इति शब्द- रत्नावली ॥ (यथा भागवते । ८ । १८ । १४ । “तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् । बृहस्पति र्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् ॥” तटस्थलक्षणपरं उपनिषद्वाक्यम् । ब्रह्मनिर्णय- सूत्रम् । यथा गीतायाम् । १३ । ४ । “ऋषिभिर्बहुधागीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥” अस्य व्याख्याने श्रीधरस्वामिना यदुक्तं तदुच्यते । “ऋषिभिर्वशिष्ठादिभिर्योगशास्त्रेषु ध्यानधार- णादिविषयत्वेन वैराग्यादिस्वरूपेण बहुधा गीतं निरूपितम् । विविधैर्विचित्रैर्नित्यनैमित्तिक- काम्यकर्म्मादिविषयैञ्छन्दोभिर्वेदैर्नानापूजनीय- देवतारूपेण गीतं ब्रह्मणः सूत्रैः पदैश्च ब्रह्म सूत्र्यते सूच्यते एभिरिति ब्रह्मसूत्राणि यतो वा इमानि भूतानि जायन्त इत्यादीनि तटस्थलक्षणपराणि सत्यं ज्ञानमनन्तं ब्रह्मे- त्यादीनि तैश्च बहुधा गीतम् । किञ्च हेतु- मद्भिः सदेव सौन्येदमग्र आसीत् कथमसतः सदजायत इति । को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्द- यातीत्यादि युक्तिमद्भिः । अन्यात् अपानचेष्टां कः कुर्य्यात् प्राण्यात् प्राणव्यापारं वा कः कुर्य्यादिति श्रुतिपदयोरर्थः । विनिश्चितैरुप- क्रमोपसंहारैकवाक्यतया असन्धिग्धार्थप्रति- पादकैरित्यर्थः । तदेवमेतैर्विस्तरेणोक्तं दुःसं- ग्रहं संक्षेपतस्तुभ्यं कथयिष्यामि तत् शृण्वि- त्यर्थः । यद्वा “अथातो ब्रह्मजिज्ञासा” इत्या- दीनि ब्रह्मसूत्राणि गृह्यन्ते तान्येव ब्रह्म पद्यते निश्चीयते एभिरिति पदानि तैर्हेतुमद्भिरीक्ष- तेर्ना शब्दं आनन्दमयोऽभ्यासादित्यादि युक्ति- मद्भिर्विनिश्चितार्थैः ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्र(व्र)ह्मसूत्र¦ न॰ ब्रह्मणि वेदग्रहणकाले उचितं सूत्रम्।

१ यज्ञोपवीते त्रिका॰।

२ ब्रह्मप्रतिपादके शारीरकसूत्रे च।
“ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितम्” गीता।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मसूत्र¦ n. (-त्रं)
1. The sacrificial or Bra4hminical thread.
2. An aphor- ism of the Ve4da4nta philosophy. E. ब्रह्म a Bra4hman and सूत्र thread.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मसूत्र/ ब्रह्म--सूत्र n. the sacred thread worn over the shoulder Ya1jn5. MBh. etc.

ब्रह्मसूत्र/ ब्रह्म--सूत्र n. a सूत्रwork treating of the knowledge of ब्रह्म( esp. the aphorisms of the वेदा-न्तphilosophy ascribed to बादरायणor व्यास, also called बादरायण-or वेदा-न्त-or व्यास-or शारीरक-सूत्र, and उत्तर-or ब्रह्म-मीमांसा)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Brahmasūtra  : nt.: Name of a sūtra- text ?

The sages in ancient times are said to have sung individually in the Brahmasūtra in different metres and with words which provide well-determined grounds their observations (viz. that this body is known as kṣetra and one who knows it is known as kṣetrajña; and the Bhagavān is the kṣetrajña residing in all kṣetras 6. 35. 1-2) 6. 35. 4 (ṛṣibhir bahudhā gītaṁ chandobhir vividhaiḥ pṛthak/brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ).

_______________________________
*2nd word in right half of page p192_mci (+offset) in original book.

Mahabharata Cultural Index

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मसूत्र&oldid=445947" इत्यस्माद् प्रतिप्राप्तम्