ब्रह्महा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्महा, [न्] पुं, (ब्रह्माणं ब्राह्मणं हतवान् । ब्रह्म + हन् + “ब्रह्मभ्रूणवृत्रेषु क्विप् ।” ३ । २ ८७ । इति क्विप् ।) ब्रह्मघ्नः ब्राह्मणवधकर्त्ता । यथा, -- “ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् । भिक्षाण्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥ भिक्षाशी विचरेद्ग्रामं वन्यैर्यदि न जीवति । ब्रह्महत्यापनोदाय मितभुक् संयतेन्द्रियः ॥ स सर्व्वस्वं वेदविदे ब्राह्मणायोपपादयेत् । धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥” इति प्रायश्चित्तविवेकः ॥ तस्य नरकभोगान्ते जन्मानि यथा, -- “श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् । चण्डालपुक्कशानाञ्च ब्रह्महा योनिमृच्छति ॥” इति मानवे । १२ । ५५ ॥
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--one who fails to satisfy a woman's love when requested to do so in secret, incurs the sin of; was urged by ययाति in defence of his marrying शर्मिष्ठा. M. ३२. ३३.
