ब्रह्मात्मभूः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मात्मभूः, पुं, (ब्रह्मण आत्मनः शरीरात् भव- तीति । ब्रह्मात्मन् + भू + क्विप् ।) अश्वः । इति शब्दमाला ॥ (अस्य ब्रह्मशरीरजातत्वमुक्तं बृहदारण्यकौपनिषदि । १ । २ । ६-७ । तद् यथा, -- “प्राणा वै यशोवीर्य्यं तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत् । सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्या- मिति । ततोऽश्वः समभवद्यदश्वत्तन्मेध्यम- भूदिति तदेवाश्वमेधस्याश्वमेधत्वम् ।” अत्र शाङ्करभाष्यं यथा, -- “प्राणाश्चक्षुरादयः । वै यशो यशोहेतुत्त्वात्तेषु हि सत्सुख्यातिर्भवति । तथा वीर्य्यं बलमस्मिन् शरीरे । नह्युत्क्रान्तप्राणो यशस्वी बलवान् भवति । तस्मात् प्राणा एव यशो वीर्य्यं चास्मिन् शरीरे । तदेवं प्राणलक्षणं यशोवीर्य्यमुदक्रामत् उत्क्रान्तवत् तदेवं यशोवीर्य्यभूतेषु प्राणेषुत्- क्रान्तेषु शरिरान्निष्क्रान्तेषु तच्छरीरं प्रजापतेः श्वयितुमुच्छूनभावङ्गन्तुमध्रियतामेध्यञ्चाभवत् । तस्य प्रजापतेः शरीरान्निर्गतस्यापि तस्मिन्नेव शरीरे मन आसीत् । यथा कस्यचित् प्रिये विषये दूरङ्गतस्यापि मनो भवति तद्बत् । स तस्मिन्नेव शरीरे गतमनाः सन् किमकरोदिति ॥ उच्यते सोऽकामयत कथं मेध्यं मेधार्हं यज्ञियं मे ममेदं शरीरं स्यात् । किञ्चात्मन्वी आत्मवां- श्चानेन शरीरेण शरीरवान् स्यामिति प्रविवेश । यस्मात्तच्छरीरं मद्वियोगाद्गतयशोवीर्य्यं सदश्व- दश्वयत्ततस्तस्मादश्वः समभवत् । ततोऽश्वनामा प्रजापतिरेव साक्षादत्र स्तूयते । यस्माच्च पुन- स्तत्प्रवेशात् गतयशोवीर्य्यत्वादमेध्यं सन्मेध्यम- भूत् तदेव तस्मादेवाश्वमेधस्याश्वमेधनाम्नः क्रतो- रश्वमेधत्वमश्वमेधनाम लाभः ॥”)
