ब्रह्मानन्द
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्र(व्र)ह्मानन्द¦ पु॰ ब्रह्मस्वरूपानन्दे तस्य मनुष्यादी-[Page4609-a+ 38] नामानन्देभ्यः श्रेष्ठत्वम् शत॰ ब्रा॰
१४ ।
७ ।
१ ।
३१ वाक्यादौ उक्तं यथा
“एषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यै-वानन्दस्यान्यानि भूतानिं मात्रामुपजीवन्ति। स योमनुष्यणां राद्धः समृद्धो भवति। अन्येषामधिपतिःसर्वैर्मानुष्यकैः कामैः सम्पन्नतमः स मनुष्याणां परमआनन्दः। अथ ये शतं मनुष्याणामानन्दाः। स एकःपितॄणां जितलोकानामानन्दः। अथ ये शतं पितॄणांजितलोकानामानन्दाः। स एकः कर्मदेवानामानन्दोये कर्मणा देवत्वमभिसम्पद्यन्ते। अथ ये शतं कर्म-देवानामानन्दाः। स एक आजानदेवानामानन्दो यश्चश्रोत्रियोऽवृजिनोऽकामहतः। अथ ये शतमाजान-देवानामानन्दाः। स एको देवलोक आनन्दो यश्च श्रो-त्रियोऽवृजिनोऽकामहतः। अथ ये शतं लोक आ-नन्दाः। स एको गन्धर्वलोक आनन्दो यश्च श्रोत्रि-योऽवृजिनोऽकामहतः। अथ ये शतं गन्धर्वलोक आ-नन्दाः। स एकः प्रजापतिलोक आनन्दः अथ ये शतंप्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आ-नन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः एष ब्रह्मलोकःसम्राडिति” मू॰।
“परमो मोक्षलक्षणो लोकः स्वयं-ज्योतिःस्वभाबो लोकशब्दस्य मुख्यवृत्तिविषयः-स्वाभाविकः। परमः स्वरूपानुभबलक्षणो मुख्यो निर-तिशय आनन्दः पूर्णानन्दः। किं च वस्तुतो नास्त्ये-वात्ममुखातिरिक्तं वैषयिकमपि सुखमित्याह एतस्यैवब्रह्मानन्दस्य मात्रां कलाम् अन्यानि अविद्यया ब्रह्मणो-ऽन्यत्वेन परिकल्पितानि ब्रह्यादिस्तम्बपर्य्यन्तानि भूता-न्युपजीवन्ति उपभुञ्जते तावन्मात्रेणैवानन्दीनि भव-न्तीत्यर्थः। मानुषानन्दमारभ्य ब्रह्मानन्दपर्य्यन्तमुत्तरो-त्तरशतगुणितातिशयशालिनां परब्रह्मानन्दावयववानांप्रतिपादनद्वारेणावयविनं निवृत्तगणितभेदमनतिशयंब्रह्मानन्दं दर्शयितुमुत्तरा श्रुतिः प्रवर्त्तते” भा॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रह्मानन्द/ ब्रह्मा m. " joy in ब्रह्म" , the rapture of absorption into the one self-existent Spirit Ra1matUp.
ब्रह्मानन्द/ ब्रह्मा m. N. of various men and authors (also 647171 -गिरिm. , 647171.1 -परम-हंसm. , 647171.2 -भारतीm. , 647171.3 -योगिन्m. , 647171.4 -योगी-न्द्रm. , 647171.5 -सारस्वतीm. , and 647171.6 दिन्, m. )
ब्रह्मानन्द/ ब्रह्मा m. N. of wk.
