सामग्री पर जाएँ

ब्रह्मार्प्रणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मार्प्रणम्, क्ली, (ब्रह्मैवार्पणमितिविग्रहे यदर्पणं तद्ब्रह्मैव । यथा, गीतायाम् । ४ । २४ ॥ “ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणाहुतम् ॥” “ब्रह्मार्पणं येन करणेन प्रकारेण ब्रह्मविद्भि- रग्नावर्पयति तद्ब्रह्मैवेति पश्यति तस्यात्म- व्यतिरेकेणाभावं पश्यति यथा शुक्तिकायां रजताभावं पश्यति तद्बदुव्यते ब्रह्मैवार्पणमिति यथा यद्रजतं तच्छुक्तिकैवेति । ब्रह्म अर्पण- मित्यसमस्ते पदे यदर्पणबुद्ध्या गृह्यते लोके तदस्य ब्रह्मविदो ब्रह्मैवेत्यर्थः । इति शाङ्कर- भाष्यम् ॥) ब्रह्मणि समर्पणम् । तत्प्रकारा यथा, “ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ नाहं कर्त्ता सर्व्वमेतद्ब्रह्मैव कुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तं ऋषिभिस्तत्त्वदर्शिभिः ॥ प्रीणातु भगवानीशः कर्म्मणानेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥ यद्वा फलानां संन्यासं प्रकुर्य्यात् परमेश्वरे । कर्म्मणामेतदप्याहुर्ब्रह्मार्पणमनुत्तमम् ॥” इति कूर्म्मपुराणे ४ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मार्प्रणम्&oldid=153567" इत्यस्माद् प्रतिप्राप्तम्