सामग्री पर जाएँ

ब्रह्मीघृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्मीघृतम्, क्ली, (ब्रह्मीजातं घृतम् ।) औषध- विशेषः । सारस्वतघृतमिति ख्यातम् । यथा, -- “समूलपत्रामुत्पाट्य ब्रह्मीं प्रक्षाल्य वारिणा । उदूखले खोदयित्वा रसं वस्त्रेण गालयेत् ॥ रसे चतुर्गुणे तस्मिन् धृतप्रस्थं विपाचयेत् । हरिद्रा मालती कुष्ठं बृहती सहरीतकी । एतेषां पलिकैर्भागैः शेषास्तु कार्षिकाः स्मृताः ॥ पिप्पल्योऽथ विडङ्गानि सैन्धवे शर्करा वचा । सर्व्वमेतत् समालोड्य शनैर्मृद्वग्निना पचेत् ॥ एतत्प्राशितमात्रेण वाग्विशुद्धिः प्रजायते । सप्तरात्रप्रयोगेण किन्नरैः सह गीयते ॥ अर्द्धरात्रप्रयोगेण स्वरो भवति कौकिलः । मासमेकं प्रयोगेण भवेत् श्रुतिधरो नरः ॥ पञ्च गुल्मान् प्रमेहांश्च कासं पञ्चविधं जयेत् । बन्ध्यानाञ्चैव नारीणां नराणामल्परेतसाम् । घृतं सारस्वतं नाम बलवर्णवपुःप्रदम् ॥” इति जयनारायणकृतचिकित्सारत्नसंग्रहः ॥ (अपरञ्च । “ब्रह्मीरसे वचाकुष्ठशङ्खपुष्पीभिरेवच । पुराणं मेध्यमुन्मादग्रहापस्मारनाशनम् ॥” इति वैद्यकचक्रपाणिसंग्रहेऽपस्माराधिकारे ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्र(व्र)ह्मीघृत¦ न॰ खारस्वतघृतमिति स्वाते औषधविशेषे यथा
“समूलपत्रामुत्पाध्य ब्रह्मीं प्रक्षाल्य वारिणा। उदूखले खोदयित्वा रसं वस्त्रेण गालयेत्। रसेचतुर्गुणे तस्मिन् घृतप्रस्थं विपाचयेत्। हरिद्रा[Page4610-a+ 38] मालतीकुष्ठं वृहती च हरीतकी। एतेषां पालिकै-र्भागैः शेषास्तु कार्षिकाः स्मृताः। पिप्पल्योऽथ विड-ङ्गानि सैन्धवं शर्करा वचा। सर्वमेतत् समालोड्य शनै-र्मृद्वग्निना पचेत्। एतत् प्राशितमात्रेण वाग्विशुद्धिःप्रजायते। सप्तरात्रप्रयोगेण किन्नरैः सह गीयते। अर्द्धरात्रप्रयोगेण स्वरो भवति कोकिलः। मासमेकंप्रयोगेण भवेत् श्रुतिधरो नरः। पञ्च गुल्मान् प्रमेहाश्चकासं पञ्चबिधं जयेत्। सन्ध्यानाञ्चैव नारीणां नरा-णामल्परेतसाम्। घृतं स्वारस्वतं नाम बलवर्णवपुःप्रदम्” चिकित्सारत्नसंग्रहः।

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मीघृत&oldid=284716" इत्यस्माद् प्रतिप्राप्तम्