ब्राह्मः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्राह्मः, पुं, (ब्रह्मणोऽपत्यं पुमान् इति । ब्रह्मन् + “तस्यापत्यम् । ४ । १ । ९२ । इत्यण् । “नस्त- द्धिते ।” ६ । ४ । १४४ । इति टिलोपः ।) नारदः । इति जटाधरः ॥ (ब्रह्मण इवायमिति अण् ।) विवाहविशेषः । यथा, -- “वरमाहूय यथाशक्त्यलङ्कृता कन्या यत्र दीयते सः ।” यथा, -- “आच्छाद्य चार्च्चयित्वा च श्रुतशीलवते स्वयम् । आहूय दानं कन्याया ब्राह्मो धर्म्मः प्रकीर्त्तितः ॥” इत्युद्बाहतत्त्वम् ॥ (“रात्रेश्च पञ्चिमे यामे मुहूत्तो ब्राह्म उच्यते ।” इति नियमात् रात्रिशेषयामार्द्धस्थितोऽरुण- दयात् प्राक्दण्डद्वयात्मको कालविशेषः । यथा, मनुः । ४ । ९१ । “ब्राह्मे मुहूर्त्ते बुद्ध्येत धर्म्मार्थौ चानुचिन्त- येत् ॥”)
