सामग्री पर जाएँ

ब्राह्मणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्राह्मणः, पुं, ब्राह्मणो विप्रस्य प्रजापतेर्वा अपत्यम् । ब्रह्म वेदस्तमधीते वा सः । इति भरतः ॥ (ब्रह्मन् + अण् “ब्राह्मोऽजातौ ।” ६ । ४ । १७१ । इति नटिलोपः ।) तत्पर्य्यायः । द्विजातिः २ अग्रजन्मा ३ भूदेवः ४ बाडवः ५ विप्रः ६ । इत्यमरः ॥ २ । ७ । ४ । ॥ द्बिजः ७ सूत्र- कण्ठः ८ ज्येष्ठवर्णः ९ अग्रजातकः १० द्विजन्मा ११ वक्त्रजः १२ मैत्रः १३ वेदवासः १४ नयः १५ गुरुः १६ । इति शब्दरत्नाबली ॥ ब्रह्मा १७ षट्कर्म्मा १८ द्विजोत्तमः १९ । इति राजनिर्घण्टः ॥ * ॥ अयं सर्व्ववर्णश्रेष्ठः । ब्रह्मणो मुखाज्जातः । प्लक्षद्वीपे तस्य संज्ञा हंसः । शाल्मलद्वीपे श्रुतिधरः । कुशद्वीपे कुशलः । क्रौञ्चद्वीपे गुरुः । शाकद्वीपे ऋतव्रतः । पुष्कर- द्वीपे सर्व्वे एकवर्णाः । अस्य शास्त्रनिरूपित- धर्म्मास्त्रयः अध्ययनं यजनं दानञ्च । जीविका- स्तिस्रः अध्यापनं याजनं प्रतिग्रहश्च । अयमा- श्रमचतुष्टयवान् भवति । यथा । ब्रह्मचारी गृहस्थः वानप्रस्थः सन्न्यासी च । क्षत्त्रियवैश्य- योस्तु क्रमश एकैकपादहीनत्वमिति बोध्यम् । इति श्रीभागवतम् ॥ * ॥ ब्राह्मणीक्षत्त्रिया- वैश्यासु ब्राह्मणाज्जातो ब्राह्मणः । यथा, -- “ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः । क्षत्त्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥” इति महाभारते अनुशासने । ४७ । २८ ॥ तस्य लक्षणं यथा, -- “जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्बिज उच्यते ॥” इति वह्रिपुराणम् ॥ अपि च । “न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः । सर्व्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥ न्निर्वपेदिति विशेषावधारणकल्पना ९ । एव- मन्यदपि उदाहार्य्यम् ॥ न च हेत्वादीनामन्यतमं ब्राह्मणमिति लक्षणम् । मन्त्रेष्वपि हेत्वादि- सद्भावात् । इन्दवोवामुशन्तिहीति हेतुः । उदानिषुर्महीरिति तस्मादुदकसुच्यते इति निर्वचनम् । मोघमन्नं विन्दते अप्रचेताः इति निन्दा । अग्निर्मूर्द्धादिवः इति प्रशंसा । अधः स्विदासीदुपरिस्विदासीति संशयः वसन्ताय कपिञ्जलानालभत इति विधिः सहस्रमयुताद- द्दितिपरकृतिः । यज्ञेन यज्ञमयजन्त देवा इति पुराकल्पः । इति करणबहुलं ब्राह्मणमिति चेत् न इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेदित्यस्मिन् ब्राह्मणेन गातव्ये मन्त्रेऽतिव्याप्तेः । इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणमिति चेन्न राजाचिद्यं भगं भक्षीत्याह यो वा रक्षाः शुचिरस्मीत्याह इत्यनयोर्मन्त्रयो- रतिव्याप्तेः आख्यायिकारूपं ब्राह्मणमिति चेन्न यमयमीसंवादसूक्तादावतिव्याप्तेः तस्मान्नास्ति ब्राह्मणस्य लक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मण- रूपौ द्वावेव वेदभागौ इत्यङ्गीकारात् मन्त्र- लक्षणस्य पूर्ब्बमभिहितत्वादवशिष्टो वेदभागो ब्राह्मणमित्येतल्लक्षणं भविष्यति । तदेतल्लक्षण- द्वयं जैमिनिः सूत्रयामास तच्चोदकेषु मन्त्रा- ख्याशेषे ब्राह्मणशब्द इत्यादि ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ८४ । “ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥” शिवः । यथा, तत्रैव । १३ । १७ । १३३ । गभस्तिब्रह्मकृद्ब्रह्मा ब्रह्मविद् ब्राह्मणो गतिः ॥” ब्रह्म जानातीति व्युत्पत्त्या परब्रह्मवेत्तरि, त्रि ॥)

"https://sa.wiktionary.org/w/index.php?title=ब्राह्मणः&oldid=153594" इत्यस्माद् प्रतिप्राप्तम्