ब्राह्मणब्रुव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्राह्मणब्रुवः, पुं, (ब्राह्मणवंशोत्पन्नतया वेदोक्त- कर्म्माकुर्व्वन्नपि आत्मानं ब्राह्मणं ब्रवीतीति । ब्राह्मण + ब्रू + क + बाहुलकात् न वच्यादेशः ।) ब्राह्मणजातिमात्रोपजीवी । यथा, -- “विप्रः संस्कारयुक्तो न नित्यं सन्ध्यादि कर्म्म यः । नैमित्तिकन्तु नो कुर्य्यात् ब्राह्मणब्रुव उच्यते ॥ युक्तः स्यात् सर्व्वसंस्कारैर्द्विजस्तु नियमव्रतैः । कर्म्म किञ्चिन्न कुरुते वेदोक्तं ब्राह्मणब्रुवः ॥ गर्भाधानादिभिर्युक्तस्तथोपनयनेन च । न कर्म्मकृन्न चाधीते स ज्ञेयो ब्राह्मणब्रुवः ॥ अध्यापयति नो शिष्यान्नाधीते वेदमुत्तमम् । गर्भाधानादिसंस्कारैर्युतः स्याद्ब्राह्मणब्रुवः ॥” इति पाद्मोत्तरखण्डे १०९ अध्यायः ॥ तस्मै दाने फलविशेषो यथा, -- “सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । अधीते शतसाहस्रमनन्तं वेदपारगे ॥” इति मानवे ७ । ८५ ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्रा(व्रा)ह्मणब्रुव¦ पु॰ ब्राह्मणं विप्रजातिमात्रतया आत्मानं ब्रवीति ब्रू--क बा॰ न वच्यादेशः। वेदतत्कर्महीने जाति-मात्रोजीविनि विप्रे
“गर्भाधानादिमन्त्रैर्यो वेदोपनय-नेन च। नाध्यापयति नाधीते स भवेद्ब्राह्मणब्रुवः” व्यासस॰।
“जातिमात्रोपजीवी च कामं स्याद् ब्राह्मण-ब्रुवः। धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन” मनुः
“सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे” मनुः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्राह्मणब्रुव¦ m. (-वः) A Bra4hman by birth but not by attention to his du- ties; one who subsists by avocations properly limited to the other tribes. E. ब्राह्मण a Bra4hman and ब्रुव who speaks, who calls himself, (improperly.) a Bra4hman.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्राह्मणब्रुव/ ब्राह्मण--ब्रुव m. " calling one's self a Brahman " , a -Br ब्राह्मणonly by name or a -Br ब्राह्मणwho disgraces his caste Mn. MBh. etc. (See. द्विज-ब्रुवand ब्रह्म-ब्रुवाण).