सामग्री पर जाएँ

ब्राह्मण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्राह्मण्डम्, क्ली, (ब्रह्मणो जगत्स्रष्टुरण्डम् । चतुर्द्दश- भुवनगोलकः । यद्वा, ब्रह्मणा विश्वसृजा कृत- मण्डम् ।) भुवनकोषः । विश्वगोलकः । यथा, -- “ब्रह्माण्डरचनाख्यानं श्रूयतां सावधानतः । ब्रह्माण्डरचनार्थञ्च भक्ता जानन्ति यत्नतः ॥ मुनयश्च सुराः सन्तः किञ्चिज्जानन्ति दुःखतः । जानामि विश्वसर्व्वार्थं ब्रह्मानन्तो महेश्वरः ॥ धर्म्मः सनत्कुमारश्च नरनारायणावृषी । कपिलश्च गणेशश्च दुर्गा लक्ष्मीः सरस्वती ॥ वेदाश्च वेदमाता च सर्व्वज्ञा राधिका स्वयम् । एते जानन्ति विश्वार्थं नान्यो जानाति कश्चन ॥ वैषम्यार्थञ्च सुधियः सर्व्वे विज्ञातुमक्षमाः । नित्याकाशो यथात्मा च तथा नित्या दिशो दश ॥ यथा नित्या च प्रकृतिस्तथैव विश्वगोलकः । गोलोकश्च यथा नित्यस्तथा वैकुण्ठ एव च ॥ एकदा मयि गोलोके रासे नृत्यं प्रकुर्व्वति । आविर्भूता च वामाङ्गाद् बाला षोडश- वार्षिकी ॥ श्वेतचम्पकवर्णाभा शरच्चन्द्रसमप्रभा । अतीवसुन्दरी रम्या रमणीनां परात्परा ॥ ईषद्धास्या प्रसन्नास्या कोमलाङ्गी मनोहरा । वह्रिशुद्धांशुकाधाना रत्नाभरणभूषिता ॥ यथा जलदपङ्क्तिश्च बलाकाभिर्विभूषिता । सिन्दूरबिन्दुना चारुचन्द्रचन्दनबिन्दुभिः ॥ कस्तूरीबिन्दुभिः सार्द्धं सीमन्ताधःस्थलोज्ज्वला । अमूल्यरत्ननिर्म्माणसुस्निग्धकिरणोज्ज्वला ॥ रत्नकुण्डलयुग्मेन गण्डस्थलसमुज्ज्वला । कुङ्कुमालक्तकस्तूरीचारुचन्दनपत्रकैः ॥ विचित्रैश्च सुचित्रैश्च सुकपोलस्थलोज्ज्वला । खगेन्द्रचञ्चुविजितनासा चार्व्वी सुशोभिता ॥ गजेन्द्रगण्डनिर्मुक्तमुक्ताभूषणभूषिता । सूक्र्या विमुक्तमुक्ताभदन्तपङ्क्तिमनोहरा ॥ वलिता ललितातीव पक्त्रविम्बाधरा वरा । शश्वत्पूर्णेन्दुनिन्दास्या पद्मनिन्दितलोचना ॥ कृष्णसारनिभोद्भिन्नसुचारुकज्जलोज्ज्वला । अमूल्यरत्ननिर्म्माणकेयूरकङ्कणोज्ज्वला ॥ मणीन्द्रराजराजीभिः शङ्खयुग्मकरोज्ज्वला । रत्नाङ्गुरीयकैरेभिरमृताङ्गुलिभूषिता ॥ रत्नेन्द्रराजराजेन क्वणन्मञ्जीररञ्जिता । रत्नपायकराजीभिः पादाङ्गुलिविराजिता । सुन्दरालक्तरागेण चरणाधःस्थलोज्ज्वला ॥ इति पठति शृणोति वा य एतत् सुरभवनेषु गृहेषु धार्म्मिकाणाम् । मतिमपि च ददाति मोदतेऽसा- वमरपतेर्भवने सहाप्सरोभिः ॥” इति मत्स्यपुराणे महादानानुकीर्त्तने ब्रह्माण्ड- दानको नाम २५० अध्यायः ॥ * ॥ अपि च । “इदानीं कार्त्तिकी चेयं वर्त्ततेऽद्य नराधिप ! । ब्रह्माण्डं सर्व्वसम्पन्नं भूतरत्नौषधीयुतम् ॥ देवदानवयक्षैश्च युक्तमेतत् सदा विभो ! । एतद्धेममयं कृत्वा सर्व्वबीजरसान्वितम् ॥ सरत्नं पुरुषं कृत्वा कार्त्तिक्यां द्बादशीदिने । अथवा पञ्चदश्यां वै कार्त्तिक्याञ्चैव नान्यतः ॥ पुरोहिताय गुरवे दापयेद्भक्तिमान्नरः । ब्रह्माण्डोदरवर्त्तीनि यानि भूतानि पार्थिव ! । तानि दत्तानि तेन स्युः समासात् कथितं तव ॥ यो यज्ञैर्यजते राजन् ! सहस्रवरदक्षिणैः । सैकोद्देशो यजेत्तस्य ब्रह्माण्डस्य विशेषतः ॥ यः पुनः सकलञ्चेदं ब्रह्माण्डं दातुमिच्छति । तेन यष्टं कृतं दत्तं पठितं कीर्त्तितं भवेत् ॥” वराह उवाच । “एतत् कृत्वा ततो राजा हेमकुम्भे प्रकल्पनम् । ब्रह्माण्डमृषये प्रादात् सपिधानञ्च तत्क्षणात् ॥ सर्व्वकामैः सुसम्बीतो ययौ स्वर्गं नराधिपः ॥” इति वराहपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=ब्राह्मण्ड&oldid=153556" इत्यस्माद् प्रतिप्राप्तम्