सामग्री पर जाएँ

ब्राह्ममुहूर्त्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्राह्ममुहूर्त्तः, पुं, (ब्राह्मो ब्रह्मदेवताको मुहूर्त्तः ।) अरुणोदयकालस्य प्रथमदण्डद्बयम् । ब्राह्म- मुहूर्त्तमाह पितामहः । “रात्रेश्च पश्चिमे यामे मुहूर्त्तो ब्राह्म उच्यते ।” पश्चिमे यामे शेषार्द्धप्रहरे । शेषार्द्धप्रहरे ब्राह्मो मुहूर्त्त इति मदनपारिजातात् । तत्रापि सूर्य्यो- दयात् प्राक् अर्द्धप्रहरे द्बौ मुहूर्त्तो तत्राद्यो ब्राह्मः द्वितीयो रौद्रः । इत्याह्निकतत्त्वम् ॥ * ॥ “ब्राह्मे मुहूर्त्ते चोत्तिष्ठेत् सुस्थो रक्षार्थमायुषः । शरीरचिन्तां निर्वर्त्य मैत्रं कर्म्म समाचरेत् ॥” इति राजवल्लभः ॥ तत्कृत्यं प्रातःकृत्यशब्दे द्रष्टव्यम् । ब्रह्मणो मुहूर्त्तः । स तु एकमनुस्थितिकालः । “दैविकानां युगानान्तु सहस्रं ब्रह्मणो दिनम् । मन्वन्तरं तथैवैकं तस्य भागश्चतुर्द्दशः ॥” इति लिङ्गपुराणदर्शनात् ॥

"https://sa.wiktionary.org/w/index.php?title=ब्राह्ममुहूर्त्तः&oldid=153609" इत्यस्माद् प्रतिप्राप्तम्