सामग्री पर जाएँ

ब्राह्मम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्राह्मम्, क्ली, (ब्रह्मण इदम् । ब्रह्मन् + “तस्ये- दम् ।” ४ । ३ । १२० । इत्यण् । ‘नस्तद्धिते ।’ ६ । ४ । १४४ । इति टिलोपः ।) ब्रह्मतीर्थं । तत्तु अङ्गुष्ठस्य मूले वर्त्तते । इत्यमरः ॥ २ । ७ । ५१ ॥ अनेन तीर्थेन द्बिजस्याचमनं यथा, आह्निकतत्त्वे । “अन्तर्जानुशुचौ देश उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्बिजो नित्यमुपस्पृशेत् ॥ अङ्गुष्ठोत्तरतो रेखा या पाणेर्दक्षिणस्य च । एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥” ब्रह्मपुराणम् । यथा, -- “ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ॥” इति मलमासतत्त्वधृतविष्णुपुराणवचनम् ॥ (ब्रह्मसम्बन्धिनि, त्रि । यथा, मनुः । १ । ६८ । “ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः । एकैकशो युगानान्तु क्रमशस्तन्निबोधत ॥” ब्रह्मा देवतास्य इति । ब्रह्मन् + “सास्य देवता ।” ४ । २ । २४ । इत्यण् । टिलोपः । ब्रह्मदेवताकमस्त्रादि । यथा, रघुः । १२ । ९७ । “अमोघं सन्दधे चास्मै धनुष्येकधनुर्द्धरः । ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--the कृतयुग. वा. ७८. ३६.
(II)--one of the six दर्शनस्. वा. १०४. १६.
(III)--a form of marriage. Vi. III. १०. २४.
"https://sa.wiktionary.org/w/index.php?title=ब्राह्मम्&oldid=433996" इत्यस्माद् प्रतिप्राप्तम्