ब्राह्माहोरात्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ब्राह्माहोरात्रः, पुं, (ब्रह्मणोऽहोरात्रः ।) ब्रह्मणो दिनयामिन्यौ । स तु दैवयुगसहस्रद्बयेन भवति । स च नृणां कल्पद्वयकालः । तत्र दिनमुदय- कल्पः रात्रिश्च क्षयकल्पः । इत्यमरटीकायां भरतः ॥ “दैविकानां युगानान्तु सहस्रं परिसंख्यया । ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरेव च ॥ तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्व्विदुः । रात्रिञ्च तावतीमेव तेऽहोरात्रविदो जनाः ॥” इति मानवे १ । ७३ ॥
