भक्तिरस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तिरसः, पुं, भक्तिरेव रसः । यथा, -- “विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः । स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः । एषा कृष्णरतिः स्थायीभावा भक्तिरसो भवेत् ॥” इति भक्तिरसामृतसिन्धुः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तिरस¦ पु॰ भक्तिः ईश्वरविषया रतिरेव रसः। तत्स्थायि-भावके रसभेदे
“विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः। स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः। एषःकृष्णरतिस्थायिभावो भक्तिरसो भवेत्” इति भक्ति-रसामृतसिन्धुः। मुक्ताफले तद्वीकायाञ्च भक्तेरसत्वम्व्यवस्थापितं यथा
“भक्तिरसस्यैव हास्यशृङ्गारकरुणरौद्रभयानकवीभत्सशान्ताद्भुतवीररूपेणानुभवात् व्या-सादिभिः वर्णितस्य विष्णोर्विष्णु भक्तानां वा चरित्रस्यनवरसात्मकस्य श्रवणादिना जनितश्चमत्कारो हि भक्ति-रसः” मुक्ता॰।
“भक्तिर्विहिताऽविहिता च सैव परांप्रकर्षरेखामापन्नारसः। यदाहुः।
“भावा एवातिसम्पन्नाःप्रयान्ति रसताममी” इति। भक्तिरसानुभावाच्च भक्तः यथातृप्त्यनुभवात् तृप्त इत्युच्यते सचानुभवो नवधा हास्यादिभङ्गिभेदेन हास्यादय एव हि भगवति प्रयुज्यमानाः
“तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेदिति” भक्ति-लक्षणाक्रान्तत्वात् भक्तिरसपदवीमासादयन्तीति भावः। हास्यादिलक्षण तु र्वक्ष्यते। ते चामी नवापि सुखः खमोहात्मकत्रैगुण्यव्यतिकरोद्भवाः तथा हि। प्रथमे{??}योरजोमूलाः, मध्यास्तु तमोमूलाः, चरमे सत्त्व{??}ः। रतिहासादयो हि रजःप्रभृतीनां विकारा{??}त्युक्त-मेकादशस्य पञ्चविंशाध्याये। तत्रापि प्रथमे त्रिषु-[Page4630-a+ 38] क्रमात् सत्त्वसंमिश्रं तमःमंमिश्रं सत्त्वतमःसंमिश्रंच रजोमूलम्। मध्येषु रजोमिश्रं सत्त्वमिश्रं रजःसत्त्वमिश्रञ्च तमः। चरमेषु तमोमिश्रं रजोमिश्रं रज-स्तमोमिश्रं च सत्त्वम् हेयाभिधानक्रमेण चैष क्रमः”। आक्षेपपूर्वकं तस्या रसरूपत्वं तत्र व्यवस्थापितं यथा
“तस्माद्विभावादिरससामग्रीविरहान्न भक्ते रसत्वम् अत-एवायमन्यैः
“एवं भक्तावपि वाच्यमिति” वदद्भिः स्रत्या-दिष्टः। अत उत्तरं पठति। व्यासादिभिरिति। वर्णितस्यचरित्रस्य विष्णुभक्ताः गोप्यादयः श्रवणादिनेत्यादिशब्दा-द्दर्शर्नकीर्त्तनस्मरणाभिनयात् चमत्कारः सामाजिकानांहि यस्मादेवंसामग्रीको भक्तिरसस्तस्मादनपह्नवनीयइत्यर्थः। तत्रैषा सामग्री केनाप्युपायेन मनीनिवेशःस्थायी चरित्रश्रवणादय उद्दीपनविभावा विष्णु विष्णु-भक्ताश्चालम्बनम् अनुभावास्तु स्तम्भादयो वक्ष्यमाणायथायोग्यं धृत्यादिका व्यभिचारिणश्च। उपायस्तु रति-हासादिः। कविभिर्वर्णितस्येत्यनेन महाकविप्रबन्धसमर्प्य-माणेष्वेव रसव्यवहारो नान्यत्रेऽत्युक्तम्। एवमेवैतत्अनुकार्य्येषु हि जानकीरामभद्रादिषु रत्यादिमात्रंचमत्कारश्च यद्यपि शृङ्गारादौ क्वचिदस्ति। तथापि तस्यभयानकादावनुपलम्भान्न तत्र रसव्यवहारः। अतएव च
“तानि चेन्नाट्यकाव्ययोः” इत्यादीनि विशेषणानि। अभि-नयैरुपदर्श्यमानादपि सन्दर्मैः समर्प्यमाणो रसोऽतिस्वदतेअतएवोक्तं
“कवि{??}गभिनेयञ्च तदुपायो द्विधेष्यते। वस्तुशक्तिमहिम्ना तु प्रथमोऽत्र विशिष्यते” इति। यत्त्वभिनवगुप्तहेमचन्द्रभ्याम्
“एवं भक्तावपि बाच्यम्” इत्युक्तंतदसत् रसत्वस्य दर्शितत्वात्। सामग्रीसद्भावेऽपि पत्या-ख्यानमरोचकतामात्रशरणम्। न च संगच्छमानोप्ययमसर्वविषयत्वात् रसत्वात्च्यवतामिति चोद्यं तथासति सर्वरसोच्छेदापातात्। तथा हि शोत्रियजरन्मी-मांसकादयो हि नाट्यमण्डपान्तःप्रविष्टा अपि चमत्-काराभावात् कीशप्राया एव। एवं प्रशान्तब्रह्मचारि-प्रभृतयः शृङ्गाररसास्वादे बालानां गाढरागाणाञ्चशान्तरसचर्वणानभिज्ञत्वम्। अननुभूतशोकस्पर्शानां चकरुणरसास्वादावसरे पाषाणप्रख्यत्वम् तस्मात् सवासन-स्यैव रसचर्वणेति भक्तिरसदर्शनम्”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तिरस/ भक्ति--रस m. a sense of devotion , feeling of loving faith Katha1s.

"https://sa.wiktionary.org/w/index.php?title=भक्तिरस&oldid=286253" इत्यस्माद् प्रतिप्राप्तम्