भक्षणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षणम्, क्ली, (भक्ष + भावे ल्युट् ।) द्रवेतरद्रव्य- गलाधःकरणम् । तत्पर्य्यायः । न्यादः २ स्वदनम् ३ खादनम् ४ अशनम् ५ निघसः ६ वल्भनम् ७ अभ्यवहारः ८ जग्धिः ९ जक्षणं १० लेहः ११ प्रत्यवसानम् १२ घसिः १३ आहारः १४ प्सानम् १५ अवष्वाणम् १६ विष्वाणम् १७ भोजनम् १८ जेमनम् १९ अदनम् २० । इति हेमचन्द्रः ॥ द्रव्यविशेषस्य भक्षणनिषेधो यथा, कर्म्मलोचने । “शणशाकं वृथामांसं करेण मथितं दधि । तर्ज्जन्या दन्तधावश्च सद्यो गोमांसभक्षणम् ॥”

"https://sa.wiktionary.org/w/index.php?title=भक्षणम्&oldid=153655" इत्यस्माद् प्रतिप्राप्तम्