भक्ष्याभक्ष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष्याभक्ष्यम्, क्ली, (भक्ष्यमभक्ष्यञ्च ।) खाद्याखाद्य- द्रव्यम् । यथा, -- “भक्ष्याभक्ष्याण्यनेकानि ब्राह्मणस्य विशेषतः । अत्र शिष्टा यथा ब्रूयुस्तथा कार्य्यविनिर्णयः ॥” इत्येकादशीतत्त्वे शङ्खवचनम् ॥ * ॥ नारद उवाच । “भक्ष्यं किंवाप्यभक्ष्यञ्च द्बिजानां गृहिणां प्रभो ! । यतीनां वैष्णवानाञ्च विधवाब्रह्मचारिणाम् ॥ किं कर्त्तव्यमकर्त्तव्यमभोग्यं भोग्यमेव च । सर्व्वं कथय सर्व्वज्ञ ! सर्व्वेश ! सर्व्वकारण ! ॥” श्रीमहेश्वर उवाच । “कश्चित्तपस्वी विप्रश्च निराहारी चिरं मुनिः कश्चित् समीरणाहारी फलाहारी च कश्चन ॥ अन्नाहारी यथा लोके गृही च गृहिणीयुतः । येषामिच्छा च या ब्रह्मन् ! रुचीनां विविधा गतिः ॥ हविष्यान्नं ब्राह्मणानां प्रशस्तं गृहिणां सदा । नारायणोच्छिष्टमिष्टमनिवेद्यमभक्ष्यकम् ॥ अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदनम् । विण्मूत्रं सर्व्वपापोक्तमन्नञ्च हरिवासरे ॥ ब्राह्मणः कामतोऽन्नञ्च यो भुङ्क्ते हरिवासरे । त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः ॥ न भोक्तव्यं न भोक्तव्यं न भोक्तव्यञ्च नारद ! । गृहिभिर्ब्राह्मणैरन्नं संप्राप्ते हरिवासरे ॥ गृही शैवश्च शाक्तश्च ब्राह्मणो ज्ञानदुर्बलः । प्रयाति कालसूत्रञ्च भुक्त्वा च हरिवासरे ॥ क्रमिभिः शालमानैश्च भक्षितस्तत्र तिष्ठति । विण्मूत्रभक्षणं कृत्वा यावदिन्द्राश्चतुर्द्दश ॥ जन्माष्टमीदिने रामनवमीदिवसे हरेः । शिवरात्रौ च यो भुङ्क्ते सोऽपि द्बिगुणपातकी ॥ अभक्ष्यमार्द्रकञ्चैव सर्व्वेषाञ्च रवेर्दिने ॥ पर्य्युषितं जलञ्चान्नं विप्राणां दुग्धमेव च । वर्णानाञ्च चतुर्णाञ्चावीरान्नस्य च भक्षणम् ॥ तदन्नञ्च सुरातुल्यं गोमांसाधिकमेव च । अवीरान्नञ्च यो भुङ्क्ते ब्राह्मणो ज्ञानदुर्ब्बलः । पितृदेवार्च्चनं तस्य निष्फलं मनुरब्रवीत् ॥ ब्राह्मणानां वैष्णवानामभक्ष्यं मत्स्यमेव च । इतरेषामभक्ष्यञ्च पञ्चपर्व्वसु निश्चितम् ॥ पितृदेवावशेषे च भक्ष्यं मासं न दूषितम् । पञ्चपर्व्वसु त्याज्यञ्च सर्व्वेषां मनुरब्रवीत् ॥ असंस्कृतञ्च लवणं तैलञ्चाभक्ष्यमेव च । भक्ष्यं पवित्रं सर्व्वेषां व्यञ्जने वह्रिसंस्कृतम् ॥ एकहस्ते घृतं तोयमभक्ष्यं सर्व्वसम्मतम् । आविलं कृमियुक्तञ्चापरिशुद्धन्त्वनिर्म्मलम् ॥ अभक्ष्यं ब्राह्मणानाञ्च वैष्णवानां विशेषतः । अनिवेद्यं हरेरेव यतीनां ब्रह्मचारिणाम् ॥ पिपीलिकामिश्रितञ्च मधु गव्यं गुडं तथा । यत्किञ्चिद्वस्तु वा तात ! न भक्ष्यञ्च श्रुतौ श्रुतम् ॥ पक्षिभक्ष्यं कीटभक्ष्यं शुद्धं पक्वफलन्तथा । काकभक्ष्यमभक्ष्यञ्च सर्व्वेषां द्रव्यमेव च ॥ घृतपक्वं तैलपक्वं मिष्टान्नं शूद्रसंस्कृतम् । अभक्ष्यं ब्राह्मणानाञ्च शूद्रभृष्टं चिपीटकम् ॥ सर्व्वेषामशुचीनाञ्च जलमन्नं परित्यजेत् । अशौचान्तात् परदिने शुद्धमेव न संशयः ॥ विपाकः कर्म्मणामेव दुष्करः श्रुतिसम्मतम् । भक्ष्याभक्ष्यञ्च कथितं यथाज्ञानं व्रजेश्वर ! ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्ण जन्मखण्डे ८५ अध्यायः ॥ “भक्ष्याभक्ष्यञ्च ते शिष्य ! वेदितव्यं तदन्तरे । करीरस्य वधः शस्तः फलान्यौदुम्बरस्य च ॥ सद्यो भक्षी भवेत्तेन अभक्ष्या पूतिवासिका । न भक्षणीयं वाराहं मांसं मत्स्यश्च सर्व्वशः ॥ अभक्ष्या ब्राह्मणैर्ह्येतैर्दीक्षितैर्हि न संशयः ॥” इति वाराहे ब्राह्मणदीक्षासूत्रनामाध्यायः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष्याभक्ष्य/ भ n. what may and may not be eaten , food allowed and prohibited Mn. v , 26

"https://sa.wiktionary.org/w/index.php?title=भक्ष्याभक्ष्य&oldid=286695" इत्यस्माद् प्रतिप्राप्तम्