भगभक्षकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगभक्षकः, पुं, (भगं योनिस्तामुपाश्रित्य भक्षयति जीविकां निर्व्वाहयतीति । भक्ष + ण्वुल् ।) कुण्डाशी । इति महाभारते दानधर्म्मः ॥ कोट्ना इति भाषा ॥ तस्यान्नभक्षणनिषेधो यथा, -- “यो बान्धवैः परित्यक्तः साधुभिर्ब्राह्मणैरपि । कुण्डाशी यश्च तस्यान्नं भुक्त्वा चान्द्रायणञ्चरेत् ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=भगभक्षकः&oldid=153680" इत्यस्माद् प्रतिप्राप्तम्