सामग्री पर जाएँ

भगवद्भक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भगवद्भक्तः, पुं, (भगवतो भगवत्या वा भक्तः ।) श्रीकृष्णभक्तियुक्तः ॥ अथ भगवद्भक्तानां लक्ष- णानि । सामान्यतः लैङ्गे । “विष्णुरेव हि यस्यैष देवता वैष्णवः स्मृतः ॥” अत्र विशेषः । “व्रतकर्म्मशुभज्ञानभोगजन्मादिमत्स्वपि । शैवेष्वपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥” तत्र व्रतिषु मध्ये भगवद्भक्तिहेतुव्रतपरता भग- वद्भक्तलक्षणम् । तथा च स्कान्दे श्रीमार्कण्डेय- भगीरथसंवादे । “दशमीशेषसंयुक्तं दिनं वैष्णववल्लभम् । ह्युपास्यते महीपाल ! ते वै भागवता नराः ॥ प्राणात्यये न चाश्नन्ति दिनं प्राप्यं हरेर्नराः । कुर्व्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥ उपोष्य द्वादशीं शुद्धां रात्रौ जागरणान्विताम् । अल्पान्तु साधयेद्यस्तु स वै भागवतो नरः ॥ भक्तिर्न विच्युता येषां न च्युतानि व्रतानि च । सुप्रियः श्रीपतिर्येषां ते स्युर्भागवता नराः ॥” कर्म्मिषु भगवदर्पणादिना तदाज्ञाबुद्ध्या वा भक्तिहेतुसदाचारपरता तत्रैव । “धर्म्मार्थं जीवितं येषां सन्तानार्थञ्च मैथुनम् । पचनं विप्रमुख्यार्थं ज्ञेयास्ते वैष्णवा नराः ॥ अध्वगन्तु पथि श्रान्तं कालेऽत्र गृहमागतम् । योऽतिथिं पूजयेद्भक्त्या वैष्णवः स न संशयः ॥ सदाचाररताः शिष्टाः सर्व्वभूतानुकम्पकाः । शुचयस्त्यक्तरागा ये सदा भागवता हि ते ॥” राति मित्रं धनं वा । “त्रिधा प्रेमैकपरता प्रेम्नः स्यात्तारतम्यतः । उत्तमा मध्यमा चासौ कनिष्ठा चेति भेदतः ॥” तत्रोत्तमा यथा एकादशे हरियोगेश्वरोत्तरे । “सर्व्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ स्वेष्टदेवस्य भावं यः सर्व्वभूतेषु पश्यति । भावयन्ति च तान्यस्मिन्नित्यर्थः सम्मतः सताम् ॥” तृतीये श्रीकपिलदेवहूतिसंवादे । “मय्यनन्येन भावेन भक्तिं कुर्व्वन्ति ये दृढाम् । मत्कृते त्यक्तकर्म्माणस्त्यक्तस्वजनबान्धवाः ॥” एकादशे श्रीहरियोगेश्वरोत्तरे च । “विसृजति हृदयं न यस्य साक्षा- द्धरिरवशाभिहितोऽप्यघौघनाशः । प्रणयरसनया धृताङ्घ्रिपद्मः स भवति भागघतप्रधान उक्तः ॥” तत्रैव मध्यममाह हरियोगेश्वरोक्तावेव । “ईश्वरे तदधीनेषु वालिशेषु द्बिषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥” कनिष्ठता तत्रैव । “अर्च्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ श्रद्धया पूजनं प्रेमबोधकं भक्त इत्यपि । प्रेम्णो हि करणात्तत्तु स्वलं भक्तानपेक्षणात् ॥ लक्षणानि च यान्यग्रे भक्तेर्लेख्यानि तान्यपि । बन्दनादीनि विद्यन्ते येषु भागवता हि ते ॥ एतानि लक्षणानीत्थं गौणमुख्यादिभेदतः । ऊह्यानि लक्षणान्येवं विवेच्यानि पराण्यपि ॥ ईदृग्लक्षणवन्तः स्युर्द्दुर्लभा बहवो जनाः । दिव्या हि मणयो व्यक्तं न वर्त्तन्ते इतस्ततः ॥” अतएवोक्तं मोक्षधर्म्मे नारदीये । जायमानं हि पुरुषं यं पश्येत्मधुसूदनः । सात्त्विकः स तु विज्ञेयो भवेन्मोक्षार्थनिश्चयः ॥” इति श्रीहरिभक्तिविलासे १० विलासः ॥

"https://sa.wiktionary.org/w/index.php?title=भगवद्भक्त&oldid=153682" इत्यस्माद् प्रतिप्राप्तम्