सामग्री पर जाएँ

भगील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भगील¦ पु॰ भानां नक्षत्राणां गोलाकारः पदार्थः। राशिचक्रेतस्य भ्रमणभेदादिकं सू॰ सि॰ उक्तं यथा
“सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम्। उपरि-ष्टाद् भगोलोऽयं व्यक्षे पश्चान्मुखः सदा” सू॰ सि॰।
“अयंप्रत्यक्षो भगोलो नक्षत्राधिष्ठितमूर्तगोलो देवानां मेरो-रुत्तराग्रवर्तिनां सव्यम् पूर्वादिकममार्गेणेत्यर्थः। भ्रमति भ्रमं परिवर्तं करोतीत्यर्थः। दैत्यानां मेरो-देक्षिणाग्रवर्तिनामपसव्यं पूर्वादिदिग्व्युत्क्रममार्गेण। पूर्वोत्तरपश्चिमदक्षिणक्रमेणेत्यर्थः। नक्षत्राधिष्ठितगोलोभ्रमति। व्यक्षे निरक्षदेशेषु जात्यभिप्रायेणैकवच-नम। उपरिष्टान्मस्तकोर्ध्वमध्यभागो भगोलःपश्चान्मुखः पश्चिमदिगभिमुखः सदा नित्यं परिभ्रमतिभगोलस्य ध्रुवमध्यस्थत्वेन भ्रमणात् तयोस्तत्र क्षिति-जवृत्तस्थत्वाच्च” रङ्ग॰। तस्य प्रत्यक्षदर्शनार्थं सि॰ शि॰भगोलबन्धप्रकारमाह यथा
“इदानीं भगोलबन्धमाह।
“याम्योत्तरक्षितिजवत् सुदृढंविदध्यादाधारवृत्तयुगलं ध्रुवयष्टिबद्धम्। षष्ट्यङ्कमात्रस-ममण्डलवत् तृतीयं नाड्याह्वयं च विषुवद्वलयं तदेव” मू॰। इदानीं क्रान्तिवृत्तमाह।
“क्रान्तिवृत्तं विधेयं गृहाङ्कंभ्रमत्यत्र भानुश्च भार्धे कुभा भानुतः। क्रान्तिपातः प्र॰तीपं तथा प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत्”। इदानीं क्रान्तिवृत्तस्य निवेशनमाह।
“क्रान्तिपाते चपाताद्भषट्कान्तरे नाडिकावृत्तलग्नम् विदध्यादिदम्। पाततः प्राक्त्रिभे सिद्धभागैरुदग् दक्षिणे तैश्च भागै-र्विभागेऽपरे”। इदानीं विमण्डलमाह।
“नाडिकामण्डलेक्रान्तिवृत्ते तथा क्षेपवृत्तं न्यसेत्। क्षेपवृत्तं तु राश्य-ङ्कितं तत्र च क्षेपपातेषु चिह्नानि कृत्वोक्तवत्। क्रान्तिवृत्तस्य विक्षेपवृत्तस्य च क्षेपपाते सषड्भे च कृत्वायुतिम्। क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैःसौम्ययाम्ये न्यसेत् शीघ्रकर्णेन भक्तास्त्रिभज्यागुणाःस्युः परक्षेपभागा ग्रहाणां स्फुटाः। क्षेपवृत्तानि षण्णांविदध्यात् पृथक् स्वस्ववृत्ते भ्रमन्तीन्दुपूर्वा महाः”। [Page4633-a+ 38] इदानीं क्रान्तिं विक्षेपं चाह।
“नाडिकामण्डलात्तिर्यगत्रापमः क्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः। क्षेपवृ-त्तावधिस्तिर्यगेवं स्फुटो नाडिकावृत्तखेटान्तरालेऽपमः”। इदानीं क्रान्तिपातानां विषुवत्क्रान्तिवलययोः सम्पातःक्रान्तिपातः स्यात्। तद्भगणाः सौरोक्ता व्यस्ता अयुत-त्रयं कल्पे। अयनचलनं यदुक्तं मुञ्जालाद्यैः सएवायम्। तत्पक्षे तद् भगणाः कल्पे गीऽङ्गार्तुःनन्दगोचन्द्राः। तत् संजातं पातं क्षित्या खेटेऽपमःसाध्यः। क्रान्तिवशाच्चरसुदयाश्चरदललग्नापमे ततःक्षेप्यः”। इदानीं विक्षेपपातानाह।
“एवं क्रान्तिविम-ण्डलसपाताः क्षेपपाताः स्युः। चन्द्रादीनां व्यस्ताःक्षेपानयने तु ते योज्याः। मन्दस्फुटो द्राक् प्रतिमण्डलेहि ग्रहो भ्रमत्यत्र च तस्य पातः। पातेन युक्ताद्-गणितागतेन मन्दस्फुटात् खेचरतः शरोऽस्मात्। पातेऽथ वा शीघ्रफलं विलोमं कृत्वा स्फुटात् तेनयुताच्छरोऽतः। चन्द्रस्य कक्षाबलये हि पातः स्फुटा-द्विधोर्मध्यमपातयुक्तात्”। इदानीं ज्ञशुक्रयोर्विशेषमाह
“ये चात्र पातभगणा पठिताज्ञभृग्वोस्ते शीघ्रकेन्द्र-भगणैरधिका यतः स्युः। सूक्ष्माः सुस्वार्थमुदिताश्चल-केन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ। चलाद्विशोध्यः किलकेन्द्रसिद्ध्यै सपातेद्युचरस्तु योज्यः। अतश्चलात् पातयुताज्ज्ञभृग्वीः सुधीभिराद्यैः शर-सिद्धिरुक्ता। स्फुटी न शीघ्रोच्चयुतौ स्फुटौ तयोःपातौ भगोले स्फुट एव पातः”। इदानीं ग्रहगोलेविशेषमाह। ग्रहस्य गोले कथितापमण्डलं प्रकल्प्यकक्षाबलय यथोदितम्। निबध्य शीघ्रप्रतिवृत्तमस्मिन्विमण्डलं तत्पठितैः शराशैः। मध्येऽत्र पातोद्युसदांज्ञभृग्वोः खशीघ्रकेन्द्रेण युतस्तु देयः। इदानीमहोरा-त्रवृत्तमाह।
“ईप्सितक्रान्तितुल्येऽन्तरे सर्वतो नाडिका-स्यादहोरात्रवृत्ताह्वयम्। तत्र बद्ध्वा घटीनां च षष्ठ्याङ्क-येद्यस्य विष्कम्भखण्डं द्युजीवा मता। इदानीमन्यदाह।
“अथ कल्प्यामेषाद्या अनुलोमं क्रान्तिपाताङ्कात्। एषांमेषादीनां द्युरात्रवृत्तानि बध्नीयात्। नाडीवृत्तोभयत-स्त्रीणि त्रीणि क्रमोत्क्रमात् तानि”। इदानीमस्योपसं-हारमाह
“एष भगोलः कथितः खेचरगोलोऽयमेवविज्ञेयः। अत्रापमण्डले वा सूत्राधारैरधश्च तस्यैव। शन्यादीनां कक्षा बध्नीयादूर्णनाभजालामाः। बद्ध्वाभ्रगो लणेवं यष्ट्यां यष्टिं खगोलनलि{??}न्तः। प्रक्षिप्य[Page4633-b+ 38] भ्रमयेत् तं यष्ट्याधारं स्थिरौ खट्टग्गोलौ” सि॰ शि॰।

"https://sa.wiktionary.org/w/index.php?title=भगील&oldid=287702" इत्यस्माद् प्रतिप्राप्तम्