सामग्री पर जाएँ

भग्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नम्, त्रि, (भन्ज् + क्तः । संघाद् विश्लिष्टत्वात् तथात्वम् ।) पराजितम् । इति हेमचन्द्रः ॥ मुटितम् । चूर्णितम् । भाङ्गा इति भाषा । यथा, भट्टिः । “चिरकालोषितं जीर्णं कीटनिष्कुषितं धनुः । किं चित्रं यदि रामेण भग्नं क्षत्त्रियकान्तिके ॥”

भग्नम्, क्ली, (भज्यते आमर्द्द्यते विश्लेष्यते इति । भञ्ज + क्तः ।) रोगविशेषः । अथ भग्नाधिकारः । तत्र भग्नस्य भेदमाह । “भग्नं समासाद्द्विविधं हुताश ! काण्डे च सन्धावपि तत्र सन्धौ । उत्पिष्टविश्लिष्टविवर्त्तितानि तिर्य्यग्गतं क्षिप्तमधश्च षड्धा ॥” भग्नमत्र भावार्थे क्तप्रत्ययस्तेन भग्नं भङ्गः स चात्र विश्लेषोऽभिप्रेतः । तेन भग्नमत्रास्थि- विश्लेषलक्षणम् । समासात् संक्षेपात् । हुताश ! हे अग्निवेश ! । यतश्चरकेऽग्निवेशस्य हुताशेति नामान्तरमुक्तम् । काण्डे सन्धिपर्य्यन्ते एक- खण्डे । अस्थिसन्धौ द्वयोरस्थ्नोः सन्धानस्थाने । तत्र सन्धौ उत्पिष्टादिभेदैः षट्प्रकारं भग्नं भवति । स्वल्पवक्तव्यत्वेन सन्धिभग्नस्यादौ विव- रणम् । उत्पिष्टेत्यादि । अधः अधोभग्नम् ॥ * ॥ सन्धिभग्नस्य सामान्यं लिङ्गमाह । “प्रसारणाकुञ्चनवर्त्तनोग्रा- रुक्स्पर्शविद्वेषणमेतदुक्तम् । सामान्यतः सन्धिगतस्य लिङ्ग- मुत्पिष्टंसन्धेः श्वयथुः समन्तात् ॥ विशेषतो रात्रिभवा रुजश्च विश्लिष्टके तौ च रुजा च नित्यम् ॥” वर्त्तनं परिवर्त्तनम् ॥ * ॥ उत्पिष्टस्य लिङ्गमाह । उत्पिष्टसन्धेः उत्पिष्टः द्बाभ्यामस्थिभ्यां पिष्टः सन्धिर्यस्य तस्य । समन्तात् उभयभागद्वयोः । विश्लिष्टमाह विश्लिष्ट इत्यादि । तौ उभयतः शोथौ । रुजा च नित्यं सदा रुजाधिका भवती- त्युत्पिष्टाद्भेदः ॥ * ॥ विवर्त्तिततिर्य्यग्गताक्षिप्ताधो- गतानाह । “लाक्षास्थिसंहृत् ककुभाश्वगन्धा चूर्णीकृता नागवला पुरश्च । संभग्नमुक्तास्थिरुजो निहन्या- दङ्गानि कुर्य्यात् कुलिशोपमानि ॥” अस्थिसंहृत् हडसिंहार । लाक्षादिगुग्गुजुः ॥ “मांसं मांसरसः क्षीरं सर्पिर्यूषः कलायजः । बृंहणञ्चान्नपानञ्च देयं भग्नाय जानता ॥ लवणं कटुकं क्षारं मद्यं मैथुनमातपम् । रूक्षमन्नं श्रमञ्चापि भग्नः सेवेत न क्वचित् ॥” इति भावप्रकाशे भग्नाधिकारः ॥ (अथास्य निदानं यथा । पतनपीडनप्रहारा- क्षेपणव्यालमृगदशनप्रभृतिभिरभिघातविशेषै- रनेकविधमस्थ्नां भङ्गमुपदिशन्ति तत्तु भङ्गजात- मनुसार्य्यमाणं द्विविधमेवोत्पद्यते सन्धिमुक्तं काण्डभग्नञ्च ॥ इति सुश्रुते निदानस्थाने पञ्च- दशेऽध्याये ॥ अथ भग्नचिकित्सा । “भग्नास्थिञ्च नरं दृष्ट्वा तस्य वक्ष्यामि भेष- जम् । मणिबन्धे कूर्परे च जानौ भग्ने कटौ तथा ॥ पृष्ठवंशे विभग्ने च साध्यान्येतानि सत्तम ! । ग्रीवादेशे चेन्द्रवस्तौ रोहिण्यां कूर्परादधः ॥ स्कन्धकूर्परमध्ये च तथा च त्रिकमध्यतः । उरसि क्रोडके चैव विभग्नं तदसाध्यकम् ॥ विभग्नञ्च नरं दृष्ट्वा वेणुखण्डेन बन्धयेत् । म्रक्षयेन्नवनीतेनैरण्डपत्रैश्च वेष्टयेत् ॥ उष्णाम्भसा सेचयेच्च बस्त्रेण मृदु बन्धयेत् । धवार्ज्जु नकदम्बानां बल्कलं काञ्जिकेन तु ॥ पिष्ट्रा हितः प्रलेपश्च तेन सौख्यं प्रजायते । स्वेदयेत्तानि चोष्णेन आवासं कारयेत् पुनः ॥ एवं क्रिया समापत्तौ ततो बन्धं विमोचयेत् । एकाहान्तरिते नापि पूर्ब्बवत्तत् प्रबन्धयेत् ॥ यावद्ग्रन्थिं न बध्नाति तावन्न स्नापयेन्नरम् ॥ इति हारीते चिकित्सितस्थाने । ५६ अः ॥ अथ पथ्यविधिः । “शीताम्बुसेचनं पङ्कप्रदेहो बन्धनक्रिया । शालिप्रियङ्गुगोधूमा यूषो मुद्गसतीलयोः ॥ नवनीतं घृतं क्षीरं तैलं माषरसो मधु । पटोलं लशुनं शिग्रु पत्तूरो बालमूलकम् ॥ द्राक्षा धात्री वज्रवल्ली लाक्षा यच्चापि वृंहणम् । तत्सर्व्वं भिषजा नित्यं देयं भग्नाय जानता ॥” अथात्रापथ्यविधिः । “लवणं कटुकं क्षारमम्लं मैथुनमातपम् । व्यायामञ्च न सेवेत भग्नो रूक्षान्नमेव च ॥” इत्यायुर्व्वेदपथ्यापथ्यग्रन्थस्य भग्नाधिकारे ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्न¦ त्रि॰ भन्ज--क्त।

१ कृतावयवभेदे

२ रोगभेदे हेमच॰। तन्निदानभेदादिकं सुश्रुते उक्तं यथा
“अथातो भग्नानां निदानं व्याख्यास्यामः। पतनपीड-नप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरभिथातविशेषैरने-कविधमस्थ्नां भङ्गमुपादिशन्ति तत् तु भङ्गजातमनुसार्य्य-माणं द्विविधमेवोत्पद्यते सन्धिमुक्तं काण्डभग्नञ्च। तत्र सन्धिमुक्तमुत्पिष्टं विश्लिष्टं विवर्त्तितमवक्षिप्तमति-क्षिप्तं तिर्य्यक्क्षिप्तमिति षड्विधम्। तत्र प्रसारणानकुञ्चनविवर्त्तनाक्षेपणाऽशक्तिरुग्ररुजत्वं स्पर्शासहत्वं चेतिसामान्यं सन्धिमुक्तलक्षणमुक्तम्। विशेषेणोत्पिष्टेसन्धाबुभयतः शोफो वेदनाप्रादुर्भावी विशेषतश्च नाना-प्रकारा वेदना रात्रौ प्रादुर्भवन्ति। विश्लिष्टेऽल्पशोफोवेदनासातत्यं सन्धिविक्रिया च। विवर्त्तिते तु सन्धि-पार्श्वापगमनाद्विषमाङ्गता वेदना च। अवक्षिप्ते सन्धि-विश्लेषस्तीव्ररुजत्वञ्च। अतिक्षिप्ते द्वयोः सन्ध्यस्थ्नोरति-क्रान्तता वेदना च। तिर्य्यक्क्षिप्ते त्वेकास्थिपार्श्वाप-गमनमत्यर्थं वेदना चेति। काण्डभग्नमत ऊर्द्ध्वं वक्ष्यामःकर्कटकमश्वकर्णं चूर्णितं पिच्चितमस्थिच्छल्लितं काण्ड-भग्नं मज्जानुगतमतिपातितं वक्रं छिन्नं पाटितंस्फुटितमिति द्वादशविधम्। श्वयथुबाहुल्यं स्पन्दनविवर्त्तनस्पर्शासहिष्णुत्वमवपीड्यमाने शब्दः स्रस्ताङ्गताविधवेदनाप्रादुर्भावः सर्वास्ववस्थासु न शर्मलाभइति समासेब काण्डभग्नलक्षणमुक्तम्। विशेषतस्तुसंमूढमुभयतोऽस्थिमध्यभग्नं ग्रन्थिरिवोन्नतं कर्कटकम्। चूर्णितमस्थि तत् तु शब्दस्पर्शाभ्यां बोद्धव्यम्। पिच्चितंपृथुताङ्गतमनल्पशोफम्। पार्श्वयोरस्थिहीनोद्गतम-स्थिच्छल्लितम्। वेल्लेत प्रकम्पमानं काण्डभग्नत्वम्। अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानसुन्नह्यतीतिमज्जानुगतम्। अस्थि निःशेषतश्छिन्नमतिपतितम्। आभुग्नमविमुक्तास्थि वक्रम्। अन्यतरपार्श्वावशिष्टं छि-न्नम्। पाटितमणु बहुविदारितं वेदनावच्च। शूकपूर्ण-मिवाध्मातं विपुलं विस्फुटीकृतं स्फुटितमिति। तेषुचूर्णितच्छिन्नातिपातितमज्जानुगतानि कृच्छ्रसाध्यानिकृशवृद्धबालानां क्षतक्षीणकुष्ठश्वासिनां सन्ध्युपगतञ्चेति। भवन्ति चात्र
“भिन्नं कपालं कट्यान्तु सन्धिमुक्तं तथाच्युतम्। जघनं प्रतिपिष्टञ्च वर्जयेत् तच्चिकित्ससकः। असंश्लिष्टं कपालन्तु ललाटे चूर्णितञ्च यत्। भग्नं[Page4634-a+ 38] स्तनान्तरे शङ्खे पृष्ठे मूर्ध्नि च वर्जयेत्। आदितो यच्चदुर्ज्जातमस्थिसन्धिरथापि वा। सम्यक् संहितमप्यस्थिदुर्न्यासाद् दुर्निबन्धनात्। सङ्क्षोभाद्वापि यद्गच्छेद्वि-क्रियां तत् तु बर्जयेत्। मध्यस्य वयसोऽवस्थास्तिस्रोयाः परिकीर्त्तिताः। तत्र स्थिरो भवेज्जन्तुरुपक्रान्तोविजांनुता। तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानितु। कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्न¦ mfn. (-ग्नः-ग्ना-ग्नं)
1. Torn, broken.
2. Overcome, defeated.
3. Disre- garded, despised.
4. Disappointed.
5. Destroyed.
6. Checked. n. (-ग्नं) Fracture of the leg. E. भञ्ज् to break, aff. क्त |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्न [bhagna], p. p. [भञ्ज्-क्त]

Broken, fractured, shattered, torn; रथोद्वहनखिन्नाश्च भग्ना मे रथवाजिनः Rām.6.14.16.

Frustrated, foiled, disappointed.

Checked, arrested, suspended.

Marred, impaired.

Routed, completely defeated or vanquished; त्वर तेन महाबाहो भग्न एष न संशयः Rām.6.88.4; U.5.

Demolished, destroyed. (See भञ्ज्). -ग्नम् Fracture of the leg.-Comp. -अस्थि a. one whose bones are broken. ˚बन्धः a splint. -आत्मन् m. an epithet of the moon. -आपद् a. one who has surmounted difficulties or misfortunes.-आश a. disappointed; भग्नशस्य करण्डपीडिततनोर्म्लानेन्द्रियस्य क्षुधा Bh.2.84. -उत्साह a. broken in energy, depressed in spirits, discouraged, damped. -उद्यम a. foiled in one's endeavours, disappointed, baffled; मन्ये दुर्जन- चित्तवृत्तिहरणे धाता$पि भग्नोद्यमः H.2.165. -क्रमः violation of symmetry in construction or expression; see प्रक्रमभङ्ग.-चेष्ट a. disappointed, frustrated. -तालः (in music) a kind of measure. -दंष्ट्र a. having the fangs broken.-दर्प a. humbled, crest-fallen. -निद्र a. whose sleep is interrupted. -परिणाम a. preventing from finishing.-पादर्क्षम् N. of six नक्षत्रs collectively (viz. पुनर्वसू, उत्तरा- षाढा, कृत्तिका, उत्तराफल्गुनी, पूर्वभाद्रपदा and विशाखा). -पार्श्वa. suffering from a pain in the sides. -पृष्ठ a.

having a broken back.

coming in front.

प्रकृमः disorder, confusion.

absence of regularity or symmetry; see प्रक्रमभङ्गः. -प्रतिज्ञ a. one who has broken his promises. -मनस् a. discouraged, disappointed. -मनोरथ a. disappointed in expectations; तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती Ku.5.1. -मान a. disgraced, dishonoured. -व्रत a. faithless in one's vows; Pt.4.1.-संकल्प a. one whose designs are frustrated. -संधिकम् butter-milk.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्न etc. See. under भञ्ज्.

भग्न mfn. broken( lit. and fig. ) , shattered , split , torn , defeated , checked , frustrated , disturbed , disappointed Mn. MBh. etc. (sometimes forming the first instead of the second part of a comp. e.g. ग्रीवा-भग्न, धर्म-भ्for भग्न-ग्रीव, -धर्म; also " one who has broken a limb " BhP. )

भग्न mfn. bent , curved R.

भग्न mfn. lost Mn. viii , 148

भग्न n. the fracture of a leg Sus3r.

"https://sa.wiktionary.org/w/index.php?title=भग्न&oldid=287726" इत्यस्माद् प्रतिप्राप्तम्