सामग्री पर जाएँ

भग्नम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भग्नम्, त्रि, (भन्ज् + क्तः । संघाद् विश्लिष्टत्वात् तथात्वम् ।) पराजितम् । इति हेमचन्द्रः ॥ मुटितम् । चूर्णितम् । भाङ्गा इति भाषा । यथा, भट्टिः । “चिरकालोषितं जीर्णं कीटनिष्कुषितं धनुः । किं चित्रं यदि रामेण भग्नं क्षत्त्रियकान्तिके ॥”

भग्नम्, क्ली, (भज्यते आमर्द्द्यते विश्लेष्यते इति । भञ्ज + क्तः ।) रोगविशेषः । अथ भग्नाधिकारः । तत्र भग्नस्य भेदमाह । “भग्नं समासाद्द्विविधं हुताश ! काण्डे च सन्धावपि तत्र सन्धौ । उत्पिष्टविश्लिष्टविवर्त्तितानि तिर्य्यग्गतं क्षिप्तमधश्च षड्धा ॥” भग्नमत्र भावार्थे क्तप्रत्ययस्तेन भग्नं भङ्गः स चात्र विश्लेषोऽभिप्रेतः । तेन भग्नमत्रास्थि- विश्लेषलक्षणम् । समासात् संक्षेपात् । हुताश ! हे अग्निवेश ! । यतश्चरकेऽग्निवेशस्य हुताशेति नामान्तरमुक्तम् । काण्डे सन्धिपर्य्यन्ते एक- खण्डे । अस्थिसन्धौ द्वयोरस्थ्नोः सन्धानस्थाने । तत्र सन्धौ उत्पिष्टादिभेदैः षट्प्रकारं भग्नं भवति । स्वल्पवक्तव्यत्वेन सन्धिभग्नस्यादौ विव- रणम् । उत्पिष्टेत्यादि । अधः अधोभग्नम् ॥ * ॥ सन्धिभग्नस्य सामान्यं लिङ्गमाह । “प्रसारणाकुञ्चनवर्त्तनोग्रा- रुक्स्पर्शविद्वेषणमेतदुक्तम् । सामान्यतः सन्धिगतस्य लिङ्ग- मुत्पिष्टंसन्धेः श्वयथुः समन्तात् ॥ विशेषतो रात्रिभवा रुजश्च विश्लिष्टके तौ च रुजा च नित्यम् ॥” वर्त्तनं परिवर्त्तनम् ॥ * ॥ उत्पिष्टस्य लिङ्गमाह । उत्पिष्टसन्धेः उत्पिष्टः द्बाभ्यामस्थिभ्यां पिष्टः सन्धिर्यस्य तस्य । समन्तात् उभयभागद्वयोः । विश्लिष्टमाह विश्लिष्ट इत्यादि । तौ उभयतः शोथौ । रुजा च नित्यं सदा रुजाधिका भवती- त्युत्पिष्टाद्भेदः ॥ * ॥ विवर्त्तिततिर्य्यग्गताक्षिप्ताधो- गतानाह । “लाक्षास्थिसंहृत् ककुभाश्वगन्धा चूर्णीकृता नागवला पुरश्च । संभग्नमुक्तास्थिरुजो निहन्या- दङ्गानि कुर्य्यात् कुलिशोपमानि ॥” अस्थिसंहृत् हडसिंहार । लाक्षादिगुग्गुजुः ॥ “मांसं मांसरसः क्षीरं सर्पिर्यूषः कलायजः । बृंहणञ्चान्नपानञ्च देयं भग्नाय जानता ॥ लवणं कटुकं क्षारं मद्यं मैथुनमातपम् । रूक्षमन्नं श्रमञ्चापि भग्नः सेवेत न क्वचित् ॥” इति भावप्रकाशे भग्नाधिकारः ॥ (अथास्य निदानं यथा । पतनपीडनप्रहारा- क्षेपणव्यालमृगदशनप्रभृतिभिरभिघातविशेषै- रनेकविधमस्थ्नां भङ्गमुपदिशन्ति तत्तु भङ्गजात- मनुसार्य्यमाणं द्विविधमेवोत्पद्यते सन्धिमुक्तं काण्डभग्नञ्च ॥ इति सुश्रुते निदानस्थाने पञ्च- दशेऽध्याये ॥ अथ भग्नचिकित्सा । “भग्नास्थिञ्च नरं दृष्ट्वा तस्य वक्ष्यामि भेष- जम् । मणिबन्धे कूर्परे च जानौ भग्ने कटौ तथा ॥ पृष्ठवंशे विभग्ने च साध्यान्येतानि सत्तम ! । ग्रीवादेशे चेन्द्रवस्तौ रोहिण्यां कूर्परादधः ॥ स्कन्धकूर्परमध्ये च तथा च त्रिकमध्यतः । उरसि क्रोडके चैव विभग्नं तदसाध्यकम् ॥ विभग्नञ्च नरं दृष्ट्वा वेणुखण्डेन बन्धयेत् । म्रक्षयेन्नवनीतेनैरण्डपत्रैश्च वेष्टयेत् ॥ उष्णाम्भसा सेचयेच्च बस्त्रेण मृदु बन्धयेत् । धवार्ज्जु नकदम्बानां बल्कलं काञ्जिकेन तु ॥ पिष्ट्रा हितः प्रलेपश्च तेन सौख्यं प्रजायते । स्वेदयेत्तानि चोष्णेन आवासं कारयेत् पुनः ॥ एवं क्रिया समापत्तौ ततो बन्धं विमोचयेत् । एकाहान्तरिते नापि पूर्ब्बवत्तत् प्रबन्धयेत् ॥ यावद्ग्रन्थिं न बध्नाति तावन्न स्नापयेन्नरम् ॥ इति हारीते चिकित्सितस्थाने । ५६ अः ॥ अथ पथ्यविधिः । “शीताम्बुसेचनं पङ्कप्रदेहो बन्धनक्रिया । शालिप्रियङ्गुगोधूमा यूषो मुद्गसतीलयोः ॥ नवनीतं घृतं क्षीरं तैलं माषरसो मधु । पटोलं लशुनं शिग्रु पत्तूरो बालमूलकम् ॥ द्राक्षा धात्री वज्रवल्ली लाक्षा यच्चापि वृंहणम् । तत्सर्व्वं भिषजा नित्यं देयं भग्नाय जानता ॥” अथात्रापथ्यविधिः । “लवणं कटुकं क्षारमम्लं मैथुनमातपम् । व्यायामञ्च न सेवेत भग्नो रूक्षान्नमेव च ॥” इत्यायुर्व्वेदपथ्यापथ्यग्रन्थस्य भग्नाधिकारे ॥)

"https://sa.wiktionary.org/w/index.php?title=भग्नम्&oldid=153700" इत्यस्माद् प्रतिप्राप्तम्