सामग्री पर जाएँ

भङ्गुरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भङ्गुरः, त्रि, (भज्यते स्वयमेवेति । भन्ज + “भञ्ज- भासमिदो घुरच् ।” ३ । २ । १६१ । इति कर्म्म- कर्त्तरि घुरच् । घित्वात् कुत्वमिति काशिका । स्वयं भञ्जनशीलः । यथा, भागवते । ७ । ७ । ४३ । “कामान् कामयते काम्यैर्यदर्थमिह पूरुषः । स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥”) कुटिलः । इति जटाधरः ॥

भङ्गुरः पुं, (भञ्ज + धुरच् । कुत्वञ्च ।) नद्या वङ्कः । इति शब्दमाल्य । नदीर वा~क इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=भङ्गुरः&oldid=153730" इत्यस्माद् प्रतिप्राप्तम्